________________
सू० १।५] विज्ञानाद्वैतवादः धनयोाप्तिः सिद्धा? यतो 'यदवभासते तज्ज्ञानम्' इत्यादि सूक्तं स्यात् । न खलु स्वरूपमात्रपर्यवसितं ज्ञानं 'निखिलमवभासमानत्वं ज्ञानत्वव्याप्तम्' इत्यधिगन्तुं समर्थम् । न चाखिलसम्बध्यप्रतिपत्तौ सम्बन्धप्रतिपत्तिः। "द्विष्ठसम्बन्धसंवित्तिः”[ ] इत्याद्यभिधानात् । न च विवक्षितं ज्ञानं ज्ञानत्वमवभासमानत्वं५ चामन्येव प्रतिपद्य तैयोाप्तिमधिगच्छतीत्यभिधातव्यम् । तत्रैवानुमानप्रवृत्तिप्रसङ्गात् । तत्र च तत्प्रवृत्तेर्वैयर्थ्य साध्यस्याध्यक्षेण सिद्धत्वात् । अथ सकलं ज्ञानमात्म्यन्यनयोर्व्याप्तिं प्रत्येतीत्युच्यते; ननु सकलज्ञानाज्ञोंने कथमेवं वादिना प्रत्येतुं शक्यम् ? न चासिद्धव्याप्तिकलिङ्गप्रभवादनुमानात्तथागतस्य खेमतसिद्धिः; १० परस्यापि तथाभूतात्कार्याद्यनुमानादीश्वरायभिमतसाध्यसिद्धिप्रसङ्गात् । न चानयोः कुतश्चित् प्रमाणाद्व्याप्तिः प्रसिद्धाः; ज्ञानवजडस्यापि पैरतो ग्रहणसिद्ध्या हेतोरनैकान्तिकत्वानुषङ्गात् ।
यदप्युक्तम्-जडस्य प्रतिभासायोगादिति, तत्राप्यप्रतिपन्नस्यास्य प्रतिभासायोगः, प्रतिपन्नस्य वा ? न तावदप्रतिपन्नस्यासौ १५
१ निश्चितम् । २ शातुं । ३ सम्बन्धिनोरवभासमानत्वज्ञानत्वयोः । ४ नैकरूपप्रवेदनात् । द्वयोः स्वरूपग्रहणे सति सम्बन्धवेदनम् । ५ प्रत्यक्षमनुमानं वा। ६ स्वस्मिन्नेव । ७ अवभासमानत्वज्ञानत्वयोः । ८ परेण। ९ अन्यथा। १० शानस्य । ११ जानाति । १२ परेण । १३ अपरिशाने ( सति)। १४ सकलं शानमित्यादिवादिना। १५ नीलादीनां ज्ञानरूपतासिद्धिः। १६ यौगादेरपि । १७ असिद्धव्याप्तिकलिङ्ग । १८ कार्या देहेंतोरुत्पन्नादनुमानात् । १९ ता हेतोः सम्बन्धि । २० किञ्च । २१ अन्यथा । २२ साध्यसाधनज्ञानयोर्व्याप्तिज्ञानेन ग्रहणम् । २३ नीलादेरर्थस्य । २४ शानात् । २५ प्रतिभासमानत्वादित्यस्य । २६ परेण । २७ परेण त्वया अज्ञातस्य।
1 "तदुक्तमन्यैः-द्वयसम्बन्धसंवित्तिनैकरूपप्रवेदनात् ।..."
तत्त्वार्धश्लो० पृ० ४२१ । 2 "नच शानत्वस्वप्रकाशनयोः साध्यसाधनयोः कुतश्चित्प्रमाणाद व्याप्तिसिद्धिः पारमार्थिकी; शानवजडस्यापि परतो ग्रहणसिद्धरनैकान्तिकत्वप्रसक्तेः।"
संमति० टी० पृ० ४८४ । 3 "जडस्य प्रतिभासायोगोऽप्यप्रतिपन्नस्य प्रतिपत्तमशक्यः, शक्यत्वे वा सन्तानान्तरस्यापि स्वप्रकाशायोगः प्रतिपत्तव्यः इति तस्याप्यभावः प्रसक्तः । तथा च परप्रतिपादनार्थ प्रकृतहेतूपन्यासो व्यर्थः । अथ प्रतिपन्नस्य जडस्य प्रकाशायोगः; तथापि विरोध:-जडः प्रवीयते प्रकाशायोगश्च इति ।" संमति० टी० पृ० ४८४ "यदप्युच्यते-जडस्य प्रतिभासायोगादिति; तत्राप्यप्रति पन्नस्य प्रतिभासायोगः प्रतिपन्नस्य वा।"
स्या०'रत्ना० पृ० १६५।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org