________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० न चैवंवादिनः स्वरूपस्य स्वतोऽबंगतिर्घटते; समकालस्यास्य प्रतिपत्तावर्थवत् प्रेसङ्गात् । न च खरूपस्य ज्ञानतादात्म्यान्नायं दोषः; तादात्म्येपि समानेरकालविकल्पानतिवृत्तेः। ननु ज्ञानमेव स्वरूपम् , तत्कथं तत्र भेदभावी विकल्पोऽवतरतीति चेत् ? कुत ५एतत् ? तथा प्रतीतेश्चेत् ; इयं यद्यप्रमाणं कथमतस्तत्सिद्धिरतिप्रेसङ्गात् ? प्रमाणं चेत् ; तर्हि स्वपरग्रहणखरूपताप्यस्य तथैवास्त्वलं तंत्रापि तद्विकल्पकल्पनया प्रत्यक्षविरोधात् । तन्न स्वतोऽवभासमानत्वं हेतुरसिद्धत्वात्।
नापि पैरतो वौद्यसिद्धत्वात् । न खलु सौगतः कस्यचित्परतोऽ१० वभासमानत्वमिच्छति। "नान्योऽनुर्भाव्यो वुझ्यास्ति तस्या नानुभैवोपरः”[प्रमाणवा० ३।३२७] इत्यभिधानात्। कथंचें साध्यसा
१ समकालो भिन्नकालो वार्थो न ग्राह्य इत्येवं वादिनो योगाचारस्य । २ शानस्य । ३ शानात् । ४ परिच्छित्तिः। ५ देशान्तरस्थमपि स्वरूपं गृह्णीयात्समकालत्वे तदुत्पत्तिलक्षणसम्बन्धाभावात्। ६ देशान्तरस्थमपि स्वरूपं गृह्णीयात्समकालत्वात् । ७ दूषणम् । ८ अर्थवत्प्रसङ्गलक्षणः। ९ भिन्न । १० अनतिक्रमणात् । ११ अपि न कुतोऽपि । १२ शानस्वरूपे । १३ प्रमाणात् । १४ ज्ञानमेव स्वरूपं । १५ ज्ञानस्य स्वरूपतया। १६ शानमेव स्वरूपसिद्धिः। १७ संशयादेरपि तत्सिद्धिः। १८ ज्ञानस्य । १९ अर्थग्रहणे। २० समानेतरकाल इत्यादि । २१ अन्यथा । २२ जैनस्य । २३ शानात् । २४ योगाचार। २५ अर्थः। २६ ग्राह्यः । २७ ग्राहकः। २८ ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते। (इति उत्तरार्द्ध श्लोकस्य )। २९ सौगतैः परतः प्रतिभासानभ्युपगमे। ३० किञ्च ।
1 "नान्योनुभाव्यस्तेनास्ति तस्या नानुभवोऽपरः।
तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥ प्रमाणवा० ३।३२७ । "बुद्ध्या योऽनुभूयते स नास्ति परः, यथा अन्योऽनुभाव्यो नास्ति तथा निवेदितम् । तस्यास्तहिं परोऽनुभवो बुद्धरस्तु, न; तत्रापि ग्राह्यग्राहकलक्षणभावः । परं हि संवेदनस्वरूपेऽवस्थितं कथं परस्यानुभवः साक्षात्करणादिकं प्रत्याख्यातम् । तत्संवेदनानुप्रवेशे च तयोरेकत्वमेव स्यात् , तथा च स्वयं सैव प्रकाशते न ततः पर इति स्थितम् ।"
प्रमाणवार्तिकालंकार । 2 "नच प्रकाशनलक्षणस्य हेतोः शानत्वेन व्याप्तिसिद्धिर्यतः स्वरूपमात्रपर्यवसितं झानं सर्वमवभासनं ज्ञान (नत्व ) व्याप्तमिति नाधिगन्तुं समर्थम् । नच सकलसम्बन्ध्यप्रतिपत्तौ सम्बन्धप्रतिपत्तिः । उक्तं च
द्विष्ठसम्बन्धसंवित्तिनैकरूपप्रवेदनात् । द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥"
सन्मति० टी० पृ० ४८३ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org