SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ८८ प्रमेयकमलमार्तण्डे [प्रथमपरि० जनकं भवेत् , तथा चान्योन्याश्रयानैकस्यापि सिद्धिः । अथानुमानमेव जन्यम् , तत्रैव जन्यताप्रतीतेः; न; अनुमानव्यतिरेकेणार्थे ग्राह्यतोवजन्यतायाः प्रतीत्यभावात् । न च स्वरूपमेव जन्यता; लिङ्गेऽपि तत्सद्भावेन जन्यताप्रसक्तेः। तथा चान्योन्यजन्यताल५क्षणो दोषः स एवानुषज्यते । अर्थानयोः स्वरूपाविशेषेऽप्यनुमान एव जन्यता लिङ्गापेक्षया, नतु लिङ्गे तदपेक्षया सेत्युच्यते; तर्हि ज्ञानार्थयोस्तदविशेषेपि अर्थस्यैव ज्ञानापेक्षया ग्राह्यता न तु ज्ञानस्यार्थापेक्षया सेत्युर्य्यताम् । न चोत्पत्तिकरणाल्लिङ्गमनुमानस्योत्पादकम् , तस्यास्ततोऽर्थान्तरानान्तरपक्षयोरसम्भवात् । सा १० हि यद्यनुमानादर्थान्तरम् । तदानुमानस्य न किश्चित्ततमित्यस्या भावः । अनुमानस्योत्पत्तिरिति सम्बन्धासिद्धिश्चानुपकारात् । उपकारे वाऽनवस्था । अथानन्तरंभूता क्रियते; तदानुमानमेव तेनं कृतं स्यात् । तथा चानुमानं लिङ्गं लिङ्गजन्यत्वादुत्तरलिङ्गक्ष. णवत् । न च प्राक्तनानुमानोपादानजन्यत्वान्नानुमानं लिङ्गम्। १५ यतस्तदप्यनुमानमन्यतो लिङ्गाचेत्तर्हि तदप्यनुमानं लिङ्गं तजन्यत्वादुत्तरलिङ्गक्षणवदिति तद्वस्थं चोद्यम् । उत्तरमपि तदेवेति चेत्, अनवस्था स्यात् । अथ तथाप्रतीतेर्लिङ्गजन्यत्वाविशेषे किञ्चिलिङ्गमपरमनुमानम् तर्हि ज्ञानजन्यत्वाविशेषेपि किञ्चिज्ज्ञानमप रोऽर्थ इति किन्न स्यात् ? तथा च 'अर्थों ज्ञानं ज्ञानकार्यत्वादुत्तर२० ज्ञानवत्' इत्ययुक्तम् । न च गृहीतिविधानादर्थस्य ग्राह्यतेष्यते; खरूपप्रतिनियमात्तदभ्युपगमात् । यथैव किसामग्र्यधीनानां रूपोदीनां चक्षुरादीनां समसमयेऽपि खरूपप्रतिनियमादुपादानेतैरत्वव्यवस्था, तथार्थज्ञानयो तैरत्वव्यवस्था च भविष्यति । नेनु यया प्रत्यासत्या ज्ञानमात्मानं विषयीकरोति तयैव चेदर्थ १ लिङ्गेन । २ ता (षष्ठी षष्ठयन्तान्मतुरित्यर्थः) (१) । ३ अनुमानस्य । ४ लिङ्गानुमानयोः। ५ परेण भवता । ६ परेण। ७ लिङ्गेन । ८ उत्पत्त्यन्तरान्वेषणात् । ९ अभिन्ना । १० लिङ्गेन। ११ ननु प्राक्तनमनुमानं लिङ्गादुत्पद्यते। १२ प्राक्तनम् । १३ लिङ्गतया अनुमानतया। १४ अनुमानस्य । १५ उत्तरक्षणं । १६ किञ्च । २७ परिच्छित्ति। १८ कारणात् । १९ जनैः। २० अर्थग्राह्यतास्वरूपस्य प्रतिनियतत्वात्। २१ पूर्वक्षण । २२ उत्तर । २३ उत्तररूपरसयोः उत्तरचक्षुर्शनयोः । २४ सहकारिकारण। २५ ग्राहक। २६ यदवभासते तज्ज्ञानमित्यनुमानस्य विपक्षे बाधकं प्रमाणम् । २७ शत्या। 1 "ननु यया प्रत्यासत्त्या शानमात्मानं विषयीकरोति तयैव चेदर्थ तर्हि तयोरै. क्यम् ...अथान्यया तर्हि स्वभावद्यापत्तिानस्य भवेत्, तदपि स्वभावद्वयं यद्यपरेण Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy