________________
सू० ११५ ]
विज्ञानाद्वैतवादः
तस्यायं दोषः 'बोधकालेऽर्थस्याभावादर्थ काले च बोधस्यासत्त्व तयोर्ग्राह्यग्राह्यकभावानुपपत्तिः' इति ।
यच्चविद्यमानार्थस्य ग्रहणे प्राणिमात्रस्याशेषंशत्वप्रसक्तिरित्युंक्तम् ; तद्व्ययुक्तम् भिन्नकलस्य समकालस्य वा योग्यस्यैवार्थस्य ग्रहणात् । दृश्यते हि पूर्वोत्तरचरादिलिङ्गप्रभवप्रत्ययाद्भिन्नकाल- ५ स्यापि प्रतिनियतस्यैव शकटोदयाद्यर्थस्य ग्रहणम् ।
१०
99
कथञ्चैवंवादिनोऽनुमानोच्छेदो न स्यात्, तथा हि- त्रिरूपा - लिङ्गाङ्गिनि ज्ञानमनुमानं प्रसिद्धम् । लिङ्गं चावभासमानत्वमन्यैद्वा यदि भिन्नकालं तस्य जनकम् तकस्यानुमानस्याशेषमतीतमनागतं तेजनकमित एवाशेषानुमेयप्रतीतेरनुमानभेदकल्पनान- १०क्यम् । अथ भिकालत्वाविशेषेपि किञ्चिदेव लिङ्गं कस्यचिजनकमित्यदोषोयम् । नन्वेवं तदविशेषेपि किञ्चिदेव ज्ञानं कस्यचिदेवार्थस्य ग्राहकं किं नेष्यते ? अथातीतानुत्पन्नेऽर्थे प्रवृत्तं ज्ञानं निर्विषयं स्यात्, तर्हि नष्टानुत्पन्नालिङ्गादुपजायमानमनुमानं निर्हेतुकं किं न स्यात् ? यथा च खेकाले विद्यमानं स्वरूपेण जैनकम् १५: तथा ग्रामपि । तन्न भिन्नकालं लिङ्गमनुमानस्य जनकम् । नापि समकालं तस्य जनकत्वविरोधत्, अविरोधे वानुमानमप्यस्य
८७
१ ज्ञानकाले । २ सर्वशत्व । ३ परेण भवता । ४ ग्रहीतुं शक्यस्य । ५ एतदेव दर्शयति । ६ लोके 1 ७ अनुमानात् । ८ कियत एव । ९ भिन्नकाल : समकालो वा अहम्प्रत्ययः इत्यादि । १० योगाचारस्य । ११ साध्ये अग्न्यादौ । १२ सहोपलम्भादि । १३ लिङ्गं । १४ एतस्मादनुमानादेव । १५ सकलसाध्यपदार्थानां परिज्ञानात् । १६ लिङ्गानामतीतानागतादीनाम् । १७ अनुमानस्य । १८ लिङ्गप्रकारेण | १९ परेण । २० अतीतकारणवादिपक्षे क्षणिकत्वेन नष्टादित्युच्यते भाविकारणवादिपक्षे लिङ्गवत्तासमानत्वमनुत्पन्नं लिङ्गं चानुमानस्य कारणं तदभावे अनुमानलक्षणकार्यानुदयात् । २१ सौगतेनोच्यते चेत् । २२ अतीतकारणवादि पक्षे क्षणिकत्वेन । २३ भाविकारणवादिपक्षे लिङ्गमवभासमानत्वमनुमानस्य कारणं तदभावे कार्यानुदयात् । २४ अतीते भविष्यति काले । २५ लिङ्गम् । २६ अनुमानस्य । २७ वस्तु । २८ ज्ञानस्य भवति । २९ सव्येतर गोविषाणवत् ।
1 “भिन्नकालस्यापि योग्य स्यैवार्थस्य शानेन ग्रहणात् । दृश्यते हि - पूर्वचरादिलिङ्गप्रभवप्रत्ययाद्भिन्नकालस्यापि प्रतिनियतस्यैव शकटोदयाद्यर्थस्य ग्रहणम् । "
स्या० रत्ना० पृ० १६३ ।
2 “किञ्चैवंवादिनस्ते कथं भिन्नकालं किञ्चिदपि लिङ्गं साध्यस्यानुमापकं स्यात् ? अनुमापकत्वे वा किञ्चिदेकमेव भस्मादिलिङ्गमतीतस्य पावकादेरिव समस्त स्याप्यतीतानागतानुमेयस्य प्रतिपत्तिहेतुः स्याद् भिन्नकालत्वाविशेषात् ।" स्या० रत्ना० पृ० १६३ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org