________________
प्रमेयकमलमार्तण्डे [प्रथमपरिक वोपलम्भोप्यन्यवेदनाऽभावे सिद्ध सिद्धयेत् । न चासौ सिद्धः; नीलाद्यर्थस्य तत्समानक्षणैरन्यवेदनैरुपलम्भप्रतीतेरित्येकेनैवोपलम्भोऽसिद्धः । एतेनैकलोलीभावेनोपलम्भः सहोपलम्भचित्रज्ञानाकारवदशक्यविवेचनत्वं साधनमसिद्ध प्रतिपत्तव्यम् ; नीलंतद्धि५ योरशक्यविवेचनत्वासिद्धेः अन्तर्बहिर्देशतया विवेकेनानयोः
प्रतीतेः। ... अथैकस्यैवोपलम्भः; किं ज्ञानस्य, अर्थस्य वा? ज्ञानस्यैव चेत्; असिद्धो हेतुः । न खलु पर प्रति ज्ञानस्यैवोपलब्धिः सिद्धा;
अर्थस्याप्युपलब्धेः । न चार्थस्याभावादनुपलब्धिः; इतरेतराश्रया१० नुषङ्गात्-सिद्धे ह्यर्थाभावे ज्ञानस्यैवोपलम्भः सिद्ध्येत्, तदुपलम्भ
सिद्धौ चार्थाभावसिद्धिरिति । अथार्थस्यैवैकस्योपलम्भः; नन्वेवं कथमर्थाभावसिद्धिः? ज्ञानस्यैवाभावसिद्धिप्रसङ्गात् । उपलम्भनिबन्धनत्वाद्वस्तुव्यवस्थायाः । स्वरूपकारणभेदाच्चानयोर्भेदः,
ग्राहकस्वरूपं हि विज्ञानं नीलादिकं तु ग्राह्यस्वरूपम् । अभेदे च १५ तयोाहकता ग्राह्यता वाऽविशेषेण स्यात् । कारणभेदस्तु
१ अर्थस्य । २ उपलम्भः । ३ सन्तानान्तरवेदनैः । ४ पुरुष । ५ एकत्वेनोपलम्भनिराकरणपरेण ग्रन्थेन। ६ चित्रज्ञानाद्यथा तदाकाराणां श्वेतादीनामशक्यविवेचनत्वं यथा न तथात्र। ७ अयमर्थ इदं शानमिति विवेकाभावः। ८ परेण । ९ नीलनीलज्ञानयोः । १० पृथक्त्वेन। ११ अर्थसंविदोरभेदः एकस्यैवोपलम्भात् । १२ जैनं प्रति । १३ अर्थज्ञानयोर्घटपटयोरिव ।
1 "एतेनैकलोलीभावेनैवोपलम्भः सहोपलम्भनियमः चित्रशानाकारवदशक्यविवेचनत्वं साधनमसिद्ध प्रतिपत्तव्यम् , अन्तर्बहिर्देशस्थतया विवेकेन शानार्थयोःप्रतीते।"
स्था० रत्ना० पृ० १५९ । 2 "अपि च सहोपलम्भ; किं शानयोः, उत अर्थयोः, ज्ञानार्थयोर्वा ?" तत्त्वोप० पृ० १२५ । "किञ्च, एकस्यैवोपलम्भो ज्ञानस्य, अर्थस्य वा?" ।
सन्मति० टी० पृ० ३५३ । .3 "अथ बाह्यार्थाभावादेकोपलम्भनियमः, तन्न; इतरेतराश्रयत्वप्रसङ्गात् । तथा चैकोपलम्भनियमाद् बाह्यार्थाभावसिद्धिः तत्सिद्धेश्च एकोपलम्भनियमसिद्धिरित्येकाभावादितराभावः।"
व्योमवती पृ० ५२७ । 4 "तथा शानं ग्राहकस्वरूपं नीलादि ग्रामस्वरूपमित्यनयोः शुक्लपीतयोरिव स्वभावभेदात् भेदः । अभेदे हि बोधोऽपि नीलस्य ग्राह्यं स्यात् नीलञ्च बोधस्य ग्राहकमिति स्यात् , न चैतदस्ति । कारणभेदाच्च नीलाद्बोधोऽर्थान्तरम् ; तथा हि-बोधाद् बोधरूपता, इन्द्रियाद्विषयप्रतिनियमः, विषयादाकारग्रहणमिति भेदादेषां भेद एव ।"
व्योमवती० पृ० ५२७ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org