SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सू० १।५] विज्ञानाद्वैतवादः सुप्रसिद्धः, ज्ञानस्य चक्षुरादिकारणप्रभवत्वात्तद्विपरीतत्वाच्च नीलाद्यर्थस्येति। । यच्चोच्यते-'यदभा(यदवभा)सते तज्ज्ञानं यथा सुखादि, अवभासते च नीलादिकम्' इति; तत्र किं खतोऽवभासमानत्वं हेतुः, परतो वा, अभा(अवभा)समानत्वमानं वा? तत्राद्यपक्षे हेतु-५ रसिद्धः। न खलु 'परनिरपेक्षा नीलाद्योऽवभासन्ते' इति परस्य प्रसिद्धम् । 'नीलादिकमहं वेद्मि' इत्यहमहमिकया प्रतीयमानेन प्रत्ययेन नीलादिभ्यो भिन्नेन तत्प्रतिभासाभ्युपगमात् । यदि च परनिरपेक्षावभासा नीलादयः परंस्य प्रसिद्धाः स्युस्तहि किमतो हेतोस्तं प्रति साध्यम् ? ज्ञानतेति चेत् ; सा यदि प्रकाशता-तर्हि १० हेतुसिद्धौ सिद्धव न साध्या । असिद्धौ वा तस्याः कथं नासिद्धो हेतुः? को हि नाम स्वप्रतिभासं तंत्रेच्छन् ज्ञानतां नेच्छेत् । ननु चौहम्प्रत्ययो गृहीतः, अगृहीतो वा, निर्व्यापारः, सव्यापारो वा, निराकारः, साकारो वा, (भिन्नकालः, समकालो वा) नीलादेाहकः स्यात् ? गृहीतश्चेत्-किं स्वतः, परतो वा? स्वत-१५ १ प्रकाश । २ प्राकृतनीलकारणप्रभवत्वात् । ३ परेण भवता । ४ तस्माद् ज्ञानमिति निगमनम् । ५ प्रतिवाद्यसिद्धः । ६ शान। ७ जैनस्य । ८ परनिरपेक्षोऽवभासो येषां ते । ९ जैनस्य । १. इष्टमबाधितमसिद्ध साध्यम्। ११ शानत्वम् । १२ नीलादीनाम् । १३ नीलादौ । 1 "प्रकाशमानस्तादात्म्यात्स्वरूपस्य प्रकाशकः । यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी ॥" प्रमाण वा० ३१३२७ । "सकृत्संवेद्यमानस्य नियमेन धिया सह । विषयस्य ततोऽन्यत्वं केनाकारेण सिद्ध्यति ॥" प्रमाणवा० अलं० पृ०९१ । "यत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत्। सियेत् स्वतोऽन्यतो वाऽपि प्रमाणात् स्वेष्टहानितः ॥" आप्तपरी० कारि० ५६ । न्यायकु० चं० प्रथमपरि० । स्या० रत्ना० पृ० १६१। ' 3 "तथा हि-परः प्रकाशयन् सम्बद्धोऽसम्बद्धो वा, गृहीतोऽगृहीतो वा, निर्व्यापारः सव्यापारो वा, निराकारः साकारो वा, भिन्नकालः समकालो वा पदार्थस्य प्रकाशकः स्यात् ?" स्था० रत्ना० पृ० १६१ । “प्रत्यक्षमर्थ तुल्यकालं वा प्रकाशयति, मिन्नकालं वा?" सन्मति० टी० पृ० ३५४ । ___“अनिर्भासं सनिर्मासमन्यनिर्भासमेव च । विजानाति न च शानं बाह्यमर्थ कथञ्चन ॥ १९९९ ॥" तत्त्वसं० पृ० ५५९ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy