________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० श्चासिद्धः; नीलाद्यर्थोपलंम्भमन्तरेणाप्युपरतेन्द्रियव्यापारेण सुखादिसंवेदनोपलम्भात् । अनैकान्तिकश्चायम्, रूपालोकयोर्भिन्नयो. रपि सहोपलम्भनियमसम्भवात् । तथा सर्वज्ञज्ञानस्य तज्ज्ञेयस्य
चेतरजनचित्तस्य सहोपलम्भनियमेऽपि भेदाभ्युपंगमादनेकान्तः। ५ननु सर्वज्ञः सन्तानान्तरं वा नेष्यते तत्कथमयं दोषः? इत्यसत्;
सकललोकसाक्षिकस्य सन्तानान्तरस्यानभ्युपगममात्रेणाऽभावाडसिद्धेः । सुगतश्च सर्वशो यदि परमार्थतो नेष्यते तर्हि किमर्थ "प्रमाणभूण्य" [प्रमाणसमु० श्लो० १] इत्यादिनासौ समर्थितः,
स्तुतश्चाद्वैतादिप्रकरणानामादौ दिग्नागादिभिः सद्भिः । न खलु १० तेषामसति सत्त्वकल्पने बुद्धिःप्रवर्तते । विचार्य पुनस्त्यागाददोर्षे
इत्यप्यसारम् ; त्यागाङ्गत्वे हि तस्य वरं पूर्वमेव नाङ्गीकरणमीश्वरादिवत् । अद्वैतमेव तथा स्तूयते इत्यपि वार्तम् । तत्र स्तोतव्यस्तोतृस्तुतितत्फलानामत्यन्तासम्भवात्।
किञ्च, सहोपलम्भः किं युगपदुपलम्भः, क्रमेणोपलम्भीभावो १५वा स्यात् , एकोपलम्भो वा? प्रथमपक्षे विरुद्धो हेतुः; 'सह शिष्येणागतः' इत्यादौ योगपद्यार्थस्य सहशब्दस्य भेदे सत्येवो. पलम्भात् । न होकस्मिन् योगपद्यमुपपद्यते । द्वितीयपक्षेप्यसिद्धो हेतुः; क्रमेणोपलम्भाभावमात्रस्य वादिप्रतिवादिनोरसिद्धत्वात् ।
१ प्रतीति। २ निवृत्तेन्द्रिय । ३ पुरुषेण। ४ न चैकत्वम् । ५ परेण । ६ शानान्तरं वा। ७ सौगतैः। ८ जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तापिने(तायिने)। ९ असति सत्वकल्पने बुद्धिप्रवृत्त्यभावलक्षणो दोषः। १० फल्गु । ११ दिङ्गागादि । १२ साधनं विचार्यते । १३ प्रसज्यः। १४ विपरीतनिश्चिताविनाभावो विरुद्धः । १५ उपाध्याये। १६ असत्सत्तानिश्चयोऽसिद्धः। १७ योगाचारजैनाभ्यां तुच्छ. खभावप्रागभावप्रध्वंसाभावलक्षणाऽभावयोरनभ्युपगमात् । १८ तुच्छरूपाभावस्य ।
-
"अथ साहाय्यं यौगपद्यं वा विवक्षितं सहोपलभ्यमानत्वं तथापि तयो/देनैव व्याप्तत्वात् विरुद्धत्वम् । तथा सर्वशः स्वचित्तेन सहोपलभते परचित्तं न च तस्य तस्मादमेद इति व्यभिचारः सर्वेषां सर्वशताप्रसङ्गात् ।” व्योमव० पृ० ५२७ ।
1"यच्च सहोपलम्भनियम उक्तः सोऽपि विकल्पं न सहते। यदि शानार्थयोः साहित्येन उपलम्भः ततो विरुद्धो हेतु भेदं साधयितुमर्हति साहित्यस्य तद्विरुद्धभेदच्याप्तत्वात् अभेदे तदनुपपत्तेः । अथैकोपलम्भनियमः, न, एकत्वस्यावाचकः सहशब्दः । अपि किमेकत्वेनोपलम्भः, आहो एक उपलम्भो ज्ञानार्थयोः १ न तावदेकरवे. नोपलम्भ इत्याह-बहिरुपलब्धेश्च विषयस्य ।" ब्रह्मसू० शां. भा. भामती २०२८ सन्मति ० टी० पृ० ३५३ । “सहोपलम्भोऽपि किं युगपदुपलम्भः, क्रमेणोपलम्भाभावः, एकोपलम्भो वाऽभिप्रेतो यस्य नियमो हेतुः स्यात् १" स्था० रखा. पृ० १५५ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org