________________
सू० ११५] विज्ञानाद्वैतवादः
ननु नार्थाभावद्वारेण विज्ञप्तिमानं साध्यते, अपितु अर्थसंविदोः सहोपलम्भनियमादभेदो द्विचन्द्रदर्शनवदिति विधिद्वारेणैव साध्यते; तदप्यसारम् ; अभेदपक्षस्य प्रत्यक्षेण बाधनाच्छब्दे श्राव(ब्देऽश्राव)णत्ववत् । दृष्टान्तोपि साध्यविकला, विज्ञानव्यतिरिक्तवाह्यार्थमन्तरेण द्विचन्द्रदर्शनस्याप्यसम्भवात् । कारणदोषवशात्५ खलु बहिःस्थितमेकमपीन्, द्विरूपतया प्रतिपद्यमानं ज्ञानमुत्पद्यते, कारणदोषज्ञानाद्वाधर्कप्रत्ययाच्चास्य भ्रान्तता । अर्थक्रियाकारिस्तम्भाधुपलब्धौ तु तदभावात्सत्यता । सहोपलम्भनियम
१ द्वन्द्वः। २ आत्मख्यातिवादी। ३ ईप् । ४ इन्द्रिय । ५ काचकामलादि । ६ उत्तरकाले नेमौ द्वौ चन्द्रौ। ७ घटपटादि ।
1 "यत्संवेदनमित्यादिना नीलाद्याकारतद्धियोरभेदसाधनाय निराकारचानवादिनं प्रति प्रमाणयति
यत्संवेदनमेव स्याद्यस्य संवेदनं ध्रुवम् । तस्मादव्यतिरिक्तं तत्ततो वा न विभिद्यते ॥ २०३०॥ यथा नीलधियः स्वात्मा द्वितीयो वा यथोडुपः।
नीलधीवेदनं चेदं नीलाकारस्य वेदनात् ॥ २०३१ ॥ - एतदुक्तं भवति-( यत्) यस्मादपृथक् संवेदनमेव तत्तस्मादभिन्नं यथा नीलधीः खस्वभावात् , यथा वा तैमिरिकशानप्रतिभासी द्वितीय उडुपः चन्द्रमाः, नीलधीवेदनज्वेदमिति पक्षधोपसंहारः । धर्म्यत्र नीलाकारतद्धियौ, तयोरभिन्नत्वं साध्यधर्मः, यथोक्तः सहोपलम्भनियमो हेतुः। ईदृश एव आचायींये सहोपलम्भनियमादित्यादी प्रयोगे हेत्वर्थोऽभिप्रेतः ।" तत्त्वसं० पं० पृ० ५६७। - 2 "-असदेतत् ; अभेदस्य प्रत्यक्षेण बाधनात् ,....शब्देऽश्रावणत्ववत् पक्षस्य प्रत्यक्षेण निराकृतेः।" सन्मति० टी० पृ० ३५२ ।
3 "पुनः स एवाह-यदि सहशब्द एकार्थस्तदा हेतुरसिद्धः; तथाहि-नटचन्द्रमल्लप्रेक्षासु न केनैवोपलम्भो नीलादेः, ...यदा च सत्त्वं प्राणभृतां सर्वे चित्तक्षणाः सर्वनावसीयन्ते तदा कथमेकेनैवोपलम्भः सिद्धः स्यात् ? नचान्योपलम्भप्रतिषेधसंभवः खभावविप्रकृष्टस्य विधिप्रतिषेधाऽयोगात् । अथ सहशब्द एककालविवक्षया तदा बुद्धविशेयचित्तेन चित्तचैत्तैश्च सर्वथाऽनैकान्तिकता हेतोः । यथा किल बुद्धस्य भगवतो यद्वियं सन्तानान्तरचित्तं तस्य बुद्धशानस्य च सहोपलम्भनियमेऽप्यस्त्येव च नानात्वम् , तथा चित्तचत्ताना सत्यपि सहोपलम्मे नैकत्वमित्यतोऽनैकान्तिको हेतुः।" तत्वसं०५० पृ० ५६७ । विधिवि० न्यायकणि० पृ२६४ । सन्मति० टी० पृ० ३५३ । स्या० रत्ना० पृ० १५५ ।
"यदप्यवर्णि सहोपलम्भनियमादमेदो नीलतद्धियोः तदपि बालभाषितमिव नः प्रतिभाति; अभेदे सहानुपपत्तेः । अथैकोपलम्भनियमादिति हेत्वों विवक्षितः, तदयमसिद्धो हेतुः नीलादिग्राह्यग्रहणसमये तद्वाहकानुपलम्भात् ।" न्यायमं० पृ०५४४ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org