________________
सू० ११५] ब्रह्माद्वैतवादः अप्रेक्षाकारित्वप्रसङ्गात् , प्रेक्षाकारिप्रवृत्तेः प्रयोजनवत्तया व्याप्तत्वात् । कृपया परोपकारार्थ तत् करोतीति चेत् ;न; तव्यतिरेकेण परस्याऽसत्त्वात् । सत्त्वे वा-नारकादिदुःखितप्राणिविधानं न स्यात् , एकान्तसुखितमेवाखिलं जगजनयेत् । किञ्च,सृष्टेः प्रागनुकम्प्यप्राण्यभावात् किमालम्ब्य तस्यानुकम्पा प्रवर्त्तते येनानुक-५ म्पावशादयं स्रष्टा कल्प्येत ? अनुकम्पावशाञ्चाय प्रवृत्तौ देवमनुघ्याणां सदाभ्युदययोगिनां प्रलयविधानविरोधः, दुःखितप्राणिनामेव प्रलयविधानानुषङ्गात् । प्राण्यदृष्टापेक्षोऽसौं सुखदुःखसमन्वितं जगत् जनयतीत्यप्यसङ्गतम् ; स्वातन्यव्याघातानुषङ्गात् । समर्थखभावस्यासमर्थखभावस्य वा नित्यैकरूपस्य वस्तुनोऽन्या-१० पेक्षाऽयोगाच्च । अदृष्टवशाच्च जगद्वैचित्र्यसम्भवे-किमनेनान्तर्गडुना पीडाकारिणा? अदृष्टापेक्षा चास्यानुपपन्ना, किं त्ववधीरणमेवोपपन्नम् , अन्यथा कृपालुत्वव्याघातप्रसङ्गः। न हि कृपालवः परदुःखं तद्धतुं वाऽन्विच्छन्ति, परदुःखतत्कारणवियोगवाज्छयैव प्रवृत्तेः।
१ मूर्खत्व । २ ब्रह्म। ३ जगतः। ४ कुत्सितसृष्टेः किं फलम् । ५ ब्रह्मणः । ६ किञ्च । ७ ब्रह्मणः। ८ पुण्यपाप। ९ ब्रह्मा। १० ब्रह्मणः । ११ अवज्ञा । १२ नराः।
1 "अभावाच्चानुकम्प्यानां नानुकम्पा प्रवर्त्तते ।
सृजेच्च शुभमेवैकमनुकम्पाप्रयोजितः ॥ ५२ ॥ मी० श्लो० पृ० ६५२ ॥ "अथानुकम्पया कुर्यादेकान्तमुखितं जगत् ॥ १५६ ॥ आधिदारिद्यशोकादिविविधायासपीडितम् । जने तु सृजतस्तस्य कानुकम्पा प्रतीयते ॥ १५७ ॥ सष्टेः प्रागनुकम्प्यानामसत्त्वे नोपपद्यते। अनुकम्पापि यद्योगाद्धाताऽयं परिकल्प्यते ॥ १५८ ॥
न चायं प्रलयं कुर्यात्सदाभ्युदययोगिनाम् ।" तत्त्वसं० पृ० ७६ । सन्मति० टी० पृ० ७१६ । स्या. रत्ना० पृ० १९८ । प्रमेयरत्न० २।१२।। . 2 "अथाऽशुभाद्विना सृष्टिः स्थितिर्वा नोपपद्यते ।
आत्माधीनाभ्युपाये हि भवेत्किन्नाम दुष्करम् ॥ ५३ ॥ तथाचापेक्षमाणस्य स्वातन्त्र्यं प्रतिहन्यते।" मी० श्लो० पृ० ६५३ । "तददृष्टव्यपेक्षायां स्वातन्त्रयमवहीयते ॥ १५९ ॥ पीडाहेतुमदृष्टं च किमर्थ स व्यपेक्षते।
उपेक्षैव पुनस्तत्र दयायोगेऽस्य युज्यते ॥ १६०॥ तत्त्वसं० पृ० ७७ । सन्मति० टी० पू० ७१६ । स्या. रत्ना० पृ० १९९ । प्रमेयरन० २।१२।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org