________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० नेनु यथोर्णनाभो जालादिविधाने स्वभावतः प्रवर्त्तते, तथात्मा जगद्विधाने इत्यप्यसत्; ऊर्णनाभो हि न स्वभावतः प्रवर्त्तते । किं तर्हि ? प्राणिभक्षणलाम्पट्यात्प्रतिनियतहेतुसम्भूततया कादाचित्कात् । 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति ५ निन्दावादोप्यनुपपन्नः; सकलप्राणिनां भेदग्राहकत्वेनैवाखिलप्रमाणानां प्रवृत्तिप्रतीतेः। __ यच्चोक्तम्-'आहुर्विधातृप्रत्यक्षम्' इत्यादि; तत्र किमिदं प्रत्यक्षस्य विधातृत्वं नाम-सत्तामात्रावबोधः, असाधारणवस्तुखरूपपरिच्छेदो वा? प्रथमपक्षोऽयुक्तः, नित्यनिरंशव्यापिनो विशेष१० निरपेक्षस्य सत्तामात्रस्य स्वप्नेप्यप्रतीतेः खरविषाणवत् । द्वितीयपक्षे तु-कथं नाद्वैतप्रतिपादकागमस्याध्यक्षबाधा? भावमेदग्राहकत्वेनैवास्य प्रवृत्तेः, अन्यथाऽसाधारणवस्तुखरूपपरिच्छेदकत्वविरोधः।
यञ्च भेदो देशभेदात्स्यादित्याधुक्तम् । तदप्यसङ्गतम् ; सर्वत्रा१५ कारभेदस्यैवार्थभेदकत्वोपपत्तेः । यत्रापि देशकालभेदस्तत्रीपि तद्रूपतयाऽऽकारभेद एवोपलक्ष्यते । स चाकारभेदः स्वसामग्रीतो जातोऽहमहमिकया प्रतीयमानेनात्मना प्रतीयते । प्रसाधयिष्यते
१ ब्रह्माद्वैतवादी । २ क्षुधा। ३ परेण । ४ विसदृश । ५ पदार्थ । ६ प्रवृत्त्यभावे । ७ परेण । ८ बहिरन्तर्वा । ९ सास्लादिमत्त्वादि । १० गवादि । ११ वस्तुनि । १२ वस्तुनि ।
1 "प्राणिनां मक्षणाच्चापि तस्य लाला प्रवर्तते ।" मी० श्लो० पृ० ६५२ ।
"प्रकृत्यैवांशुहेतुत्वमूर्णनाभेऽपि नेष्यते ।
प्राणिभक्षणलाम्पट्याल्लालाजालं करोति यत् ॥ १६८॥" तत्त्वसं० पृ० ७९, न्यायकुमुदचं० प्रत्य० परि०, सन्मति० टी० पृ० ७१७ । स्या. रत्ना० पृ० १९९ । प्रमेयरत्नमा० २।१२।
2 "यदप्युक्तम्-आहुर्विधातृप्रत्यक्षमिति, तदप्यसाधु; विधातृ इति कोऽर्थः ? इदमपि वस्तुस्वरूपं गृह्णाति नान्यरूपं निषेधति प्रत्यक्षमिति चेन्मैवम् , अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः । पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति नेतरथा।"
न्यायमं० पृ० ५२९ । "यतो विधातृत्वं किं प्रत्यक्षस्य भावस्वरूपग्राहित्वम् , आहोस्विदन्यत् ? सन्मति. टी० पृ० २८५ ।
"तत्र किमिदं प्रत्यक्षस्य विधातृत्वं नाम सत्तामात्रावबोधः, असाधारणस्वरूपपरि. च्छेदो वा?"
स्था० रत्ना० पृ. २०१। 3"यदपि-देशकालाकारमेदैर्भेदो न प्रत्यक्षादिभिः प्रतीयते इत्यायुक्तम् । अभेद. प्रतिपत्तावप्यस्य समानत्वात्।" सन्मति० टी० पृ० २८६ । स्या० रत्ना० पृ० २०३ । Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org