________________
प्रमेयकमलमार्त्तण्डे
[ प्रथमपरि०
13
१४
बाध्यमानत्वं च कल्पनालक्षणमेतेनं प्रत्युक्तम् तस्यासदर्थविषयत्वादर्थान्तरत्वसम्भवात् । अन्यापेक्षतयर्थ स्वरूपावधारणं चानन्तरमेव प्रत्याख्यातम् यतो व्यवहार एवान्यापेक्षतया प्रवर्तते न स्वरूपावधारणम् । नापि भेदप्रतिभासस्योपचाररूपं कल्पना५ त्वम् ; मुख्यासम्भवे तस्याप्यदर्शनान्माणवके सिंहापचारवत् । न चाभेदवादिनो मुख्यं भेदाभ्युपगमोस्त्यैपसिद्धान्तप्रसङ्गात् । यच्चानुमानादप्यात्माद्वैतसिद्धिरित्युक्तम् ; तत्र स्वतः प्रतिभासमानत्वं हेतुः, परतो वा । स्वतश्चेत्; असिद्धिः । परंतश्चेत्; विरुद्धोद्वैते साध्ये द्वैतप्रसाधनात् । 'घटः प्रतिभासते' इत्यादिप्रति१० भासामानाधिकरण्यं तु विषये विषयिधर्मस्योपचारात् न पुनः प्रतिभासात्मकत्वात् । प्रतिभासनं हि विषयिणो ज्ञानस्य धर्मः स विषये घटादावध्यारोप्यते । तदध्यारोपनिमित्तं च प्रतिभासनक्रियाधिकरणत्वम् । तथा च 'अर्थमहं वेद्मि' इत्यन्तः प्रकाशमानानन्तपर्यायाऽचेतनद्रव्यवद्बहिः प्रकाशमानानन्तपर्यायाऽचेतनद्र१५ व्यमपि प्रतिपत्तव्यम् । 'सर्व वै खल्विदं ब्रह्म' इत्याद्यागमोपि नाद्वैतप्रसाधकः; अभेदे प्रतिपाद्यप्रतिपादकभावस्यैवासम्भवात् । न चागमप्रामाण्यवादिना अर्थवादस्य प्रामाण्यमभिप्रेतमतिप्रसङ्गाते। आत्मैव हि सकललोकसर्गस्थितिप्रलयहेतुरित्यप्यसम्भाव्यम्; अद्वैतैकान्ते कार्यकारणभावविरोधात्, तस्य द्वैताविनाभावित्वात् । २० निराकृतं च नित्यस्य कार्यकारित्वं शब्दाद्वैत विचारप्रक्रमे ।
"
२३
किमर्थं चासौ जगद्वैचित्र्यं विदधाति ? न तावद्यसनितय;
७०
१ असदर्थविषयत्वनिराकरणेन । २ अपादाने का ( पञ्चमी) । ३ एकत्वप्रतिभास । ४ घट । ५ पट । ६ कथं । ७ किन्तु स्वापेक्षतया एव प्रतिभासते । ८ वा । ९ भेदस्य | १० अनि । ११ अन्यथा । १२ परेण । १३ पदार्थानां । १४ परवाद्यसिद्धो हेतुः । नहि पदार्थाः स्वत एव प्रतिभासन्ते । १५ अन्यस्मात् । १६ ईप् । १७ स्वरूपस्य । १८ विषयस्य । परेण । १९ परेण । २० प्रशंसारूपस्य । २१ अलाबूनि निमज्जन्ती (?) त्यादेरपि प्रमाणताप्रसङ्गः । सारमित्येतस्य प्रशंसावचनस्य अलाबुषु सद्भावात् (? ग्रावाणः प्लवन्ते अन्धो मणिमविन्दत्) । २२ किञ्च । २३ ब्रह्मा । २४ फलं विना प्रवृत्तिर्व्यसनम् ।
1 "तत्र स्वतः प्रतिभासमानत्वं हेतुः, परतो वा ?" स्या० रा० पृ० १९४ । प्रमेयरलमा० २।१२ ।
2 " जगच्चाऽसृजतस्तस्य किन्नानेष्टं न सिद्ध्यति ॥ ५४ ॥
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते ।
पवमेव प्रवृत्तिश्चैश्चैतन्येनास्य किं भवेत् ॥ ५५ ॥ " मी० श्रो० पृ० ६५३ । सम्मति० टी० पृ० ७१५ । स्या० रत्ना० पृ० १९८ । प्रमेयरल० २।१२ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org