________________
सू० ११५] ब्रह्माद्वैतवादः ज्ञानेनानुयायिरूंपतया व्यवह्रियते, तर्हि भेदोऽप्यध्यक्षेण प्रतिपन्नोऽन्यापेक्षया विकल्पज्ञानेन व्यावृत्तिरूपतया व्यवहियते इत्यप्यस्तु।
को चेयं कल्पना नाम-ज्ञानस्य स्मरणानन्तरभावित्वम् , शब्दाकारानुविद्धत्वं वा स्यात् , जात्याद्युल्लेखो वा, असदर्थविषयत्वं५ वा, अन्यापेक्षतयाऽर्थस्वरूपावधारणं वा, उपचारमात्रं वा प्रकारान्तराऽसम्भवात् ? न तावदाद्यविकल्पः; अभेदज्ञानस्यापि स्मरणानन्तरमुलम्मेन कल्पनात्वप्रसङ्गात् । शब्दाकारानुविद्धत्वं च शाने प्रागेव प्रतिविहितम् । ननु सकलो भेदप्रतिभासोऽभिलापपूर्वकस्तभावे भेदप्रतिभासस्याप्यभावः स्यात् ; तन्न; विकल्पाभि-१० लापयोः कार्यकारणभावस्य कृतोत्तरत्वात् । अस्तु वासौ, तथापि किं शब्दजनितो भेदप्रतिभासः, तजनितो वा शब्दः? प्रथमपक्षे किं शब्दादेव भेदप्रतिभासः, ततोऽसौ भवत्येवेति वा? शब्दादेव भेदप्रतिभासाभ्युपगमे प्रथमाक्षसन्निपातानन्तरं चित्रपट्यादिशानस्य भेदविषयस्यानुत्पत्तिप्रसङ्गः, निर्विकल्पकानुभवानन्तरं १५ संकेतस्मरणविवक्षाप्रयत्नताल्वादिपरिस्पन्दक्रमेणोपजायमानशब्दस्याविकल्पकप्रथमप्रत्ययावस्थायामभावात् । शब्दादनेकत्वप्रतिभासो भवत्येवेत्यप्ययुक्तमुक्तम् ; एकं ब्रह्मणो रूपम्' इत्यादिशब्दस्य मेदप्रत्ययजनकत्वे सति आगमात्तस्यैकत्वप्रतिपत्तेरभावानुषङ्गात् । मेदप्रतिभासाच्छब्दे(ब्दोऽ)स्तीत्यभ्युपगते च-अन्यो-२० न्याश्रयत्वम्-शब्दानेदप्रतिभासः, भेदप्रतिभासाच्छब्द इति । 'घटोयं पटोयम्' इत्यादिभेदप्रतिभासस्य जात्याद्युल्लेखित्वात्कल्पनात्वे-अभेदज्ञानस्यापि कल्पनात्वानुषङ्गः; तस्यापि संत्तादिसामान्योल्लेखित्वात् । असदर्थविषयत्वं च भेदप्रतिभासस्यासिद्धम्। अर्थक्रियाकारिणो वस्तुभूतार्थस्य तत्र प्रतिभासनात् । विसंवादित्वं २५
१ अनुस्यूतरूपतया। २ घटस्य । ३ पट। ४ विसदृश। ५ सर्व खल्विदं ब्रह्मेत्यादिरूपस्य सोहमित्यादेर्वा । ६ प्रतीत्या । ७ सविकल्पकसिद्धौ शब्दाद्वैते च । ८ परः। ९ इति चेत् । १० सविकल्पकसिद्धौ। ११ पूर्वावधारणम् । १२ उत्तरावधारणम् । १३ परेण । १४ चित्राणां पटानां समाहारः चित्रपटी। १५ भेदो विषयो यस्य । १६ नीलादि । १७ वक्तुमिच्छा। १८ उत्साह । १९ मेद । २० प्रतिभास । २१ इदं सदिदं सत्। २२ भात्मत्व । २३ परामर्शित्वात् । २४ स्नानपानादि ।
१४
1 "किंचान्यापेक्षया भवनमेव भेदप्रत्ययस्य कल्पनात्वं स्यात् , किंवा स्मरणसमनन्तरमावित्वम् , यद्वा शब्दानुविद्धत्वम् , उत जात्याद्युल्लेखित्वम् , अथासदर्थविषयत्वम् , उपचाररूपत्वं वा?"
स्था० रत्ना० पृ० २०१।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org