________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० रूपमेकत्वं प्रत्यक्षग्राह्यमित्युच्यते; तत्किं व्यत्यधिकरणतया प्रतिभाति, अनधिकरणतया वा? प्रथमपक्षे मेदप्रसङ्गः 'व्यक्तिरधिकरणं तदधेियं च सत्तासामान्यम्' इति, अयमेव हि भेदः । द्वितीयपक्षे-व्यक्तिग्रहणमन्तरेणाप्यन्तराले तत्प्रतिभासप्रसङ्गः । ५ तथा किमेकव्यक्तिग्रहणद्वारेण तत्प्रतीयते,सकलव्यक्तिग्रहणद्वारेण वा ? प्रथमपक्षे विरोधः, एकाकारता ह्यनेकव्यक्तिगतमेकं रूपम् , तच्चैकस्मिन् व्यक्तिस्वरूपे प्रतिभातेऽप्यनेकव्यक्त्यनुयायितया कथं प्रतिभासेत ? अथ सकलव्यक्तिप्रतिपत्तिद्वारेण तत्प्रतीयते; तदा
तस्याऽप्रतिपत्तिरेवाखिलव्यक्तीनां ग्रहणासम्भवात् । भेदसिद्धि१० प्रसङ्गश्च-अखिलव्यक्तीनां विशेषणतया एकत्वस्य च विशेष्यत्वेन, एकत्वस्य वा विशेषणतया तासां च विशेष्यत्वेन प्रतिभासनात् । तथा तद्व्यक्तिभ्यस्तद्भिन्नम् , अभिन्नं वा ? यद्यभिन्नम्। तर्हि व्यक्तिरूपतानुषङ्गोऽस्य । न च व्यक्तिय॑त्यन्तरमन्वेतीति कथं
सकलव्यक्त्यनुयायित्वमेकत्वस्य । अथार्थान्तरम् ; कथं नानात्वा१५ऽप्रसद्धिः ? यथा चानुगतप्रत्ययजनकत्वेनैकत्वं व्यक्तिषु कैल्प्यते
तथा व्यावृत्तप्रत्ययजनकत्वेनानेकत्वमप्यविशेषात् । तन्नैकत्वं नानात्वमन्तरेणावकाशं लभते । प्रयोगः विवादाध्यासितमेकत्वं परमार्थसन्नानात्वाविनाभावि एकान्तैकत्वरूपतयाऽनुपलभ्यमानत्वात् , घटादिभेदाविनाभूतमृद्रव्यैकत्ववत् । एतेन व्यक्तिमात्र२० गतमप्येकत्वं प्रत्युक्तम् , एकानेकव्यक्तिव्यतिरेकेण व्यक्तिमात्रस्यानुपपत्तेः।
यच्चोक्तम्-"भेदस्यान्यापेक्षतया कल्पनाविषयत्वम्" तदप्युक्तिमात्रम् एकत्वस्यैवान्यापेक्षतयाँ कैल्पनाविषयत्वसम्भवात् । तद्ध्यनेकव्यत्याश्रितम्, भेदस्तु प्रतिनियतव्यक्तिखरूपोऽध्यक्षाव२५ सेयः। अथैकत्वं प्रत्यक्षेणैव प्रतिपन्नम्, अन्यापेक्षया तु कल्पना
२९
१ परेण भवता । २ वसः। ३ वसः। ४ तस्यां व्यक्तावाधीयते आरोप्यते इति तदाधेयं। ५ प्रतिपत्तव्यक्त्योर्मध्ये। ६ किञ्च । ७ किञ्च । ८ व्यक्तिस्वरूपवत् । ९ मिन्नं। १० इदं सादेदं सदिति। ११ समर्थ्यते। १२ पटाद् घटो व्यावृत्त इति । १३ कल्प्यताम् । १४ सर्वथा। १५ विकल्पद्वयनिराकरणपरेण ग्रन्थेन । १६ निराकृतम्। १७ परेण । १८ पटस्य । १९ मेद । २० प्रमीयमानत्वात् । २१ विकल्प। २२ एकत्वं । २३ घटः सन् पटः सन्नित्यादिशानेन ।
1 "यदपि गदितं भेदः पुनः परापेक्षतया प्रतीयते इत्यादि, तदपि नोपपन्नम् । एकत्वमपि हि परापेक्षतया प्रतीयते, ततश्चैतत्प्रत्ययोऽपि कल्पनाप्रत्ययरूपत्वेनाप्रमाण. त्वात् कथमिवैकत्वं साधयेत् ?"
स्या. रत्ना० पृ० २०० ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org