SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सू० ११५ ] तिष्ठते । अवच्छेदक्यविद्याव्यावृत्तौ हि परमात्मैकस्वरूपतावस्थितेः घटाद्यवच्छेकभेदव्यावृत्तौ व्योम्नः शुद्धाकाशतावत् । ब्रह्माद्वैतवादः न चाद्वैते सुखदुःखबन्धमोक्षादिभेदव्यवस्थानुपपन्नाः संमारोपितादपि भेदात्तद्भेदव्यवस्थोपपत्तेः, यथा द्वैतिनों 'शिरसि मे वेदना पादे मे वेदना' इत्यात्मनः समारोपितभेद निमित्ता ५ दुःखादिमेदव्यवस्था । पादादीनामेव तद्वेदनाधिकरणत्वात्तेषां च भेदात्तद् व्यवस्था युक्तेत्यप्ययुक्तम् ; यतस्तेषामज्ञत्वेन भोक्तृत्वायोगात् । भोक्तृत्वे वा चार्वाकमतानुषङ्गः । तदेवमेकत्वस्य प्रत्यक्षानुमानागमं प्रमितरूपत्वात्सिद्धं ब्रह्माऽद्वैतं तत्त्वमिति ॥ छ ॥ अत्र प्रतिविधीयते । किं भेदस्य प्रमाणवाधितत्वादभेदः १० सीध्यते, अभेदे साधकप्रमाणसद्भावाद्वा ? तत्राद्यविकल्पोऽयुक्तः; प्रत्यक्षादेर्भेदानुकूलतयां तद्वाधकत्वायोगात् । न खलु भेदमन्तरेण प्रमाणेतरव्यवस्थापि सम्भाव्यते । द्वितीयपक्षोऽप्ययुक्तः; मेदमन्तरेण साध्यसाधकभावस्यैवासम्भवात् । न चाभेदसाधकं किञ्चित्प्रमाणमस्ति । ५ अन्यथा | १ घटे पटस्य निषेधकः मेदोत्पादक इत्यर्थः । दत्तादेर्भावात् । कल्पितात् । ४ नैयायिकादीनां । ७ अनुमानागमौ । ८ ग्राहक । ९ प्रवर्तमानत्वात् इति शेषः । ११ सामान्य । १२ विरोधात् । १३ विशेष । १४ इदं सदिदं सत् । ६७ यच्चोक्तम्- "अविकल्पकाध्यक्षेणैकत्वमेवावसीयते" तत्र किमेकव्यक्तिगतम्, अनेकव्यक्तिगतम्, व्यक्तिमात्रगतं वा तत्त्वेन प्रतीयते ? एकव्यक्तिगतं चेत्; तत्किं साधारणम्, असाधारणं वा ? न तावत्साधारणम्; 'एकव्यक्तिगतं साधारणं च' इति विप्रतिषेधात् । असाधारणं चेत्; कथं नातो भेदसिद्धिः असा २० धीरणस्वरूपलक्षणत्वाद्भेदस्य । अथानेकव्यक्तिगतं सत्तासामान्य Jain Educationa International २ घटाकाशपटाकाश । ३ देव ६ परेण भट्टेन । For Personal and Private Use Only १५ १० तदाभास । 1 “ – एकस्यापि जीवात्मन उपाधिमेदात् सुखदुःखानुभवो दृश्यते पादे मे वेदना, शिरसि मे सुखं वेदनेति - " न्यायमं० पृ० ५२८ । स्या० रा० पृ० १९३ । 2 " तथाहि मेदस्य प्रमाणबाधितत्वात् किमयमभेदाभ्युपगमो भवतामुतस्विदभेदस्यैव प्रमाणसिद्धत्वादिति" न्यायमं० पृ० ५२८ । " किं मेदस्य प्रमाणबाधितत्वादेकत्वमुच्यते, आहोस्विद् भेदे प्रमाणसद्भावात् ?" सन्मति ० टी० पृ० २८५ । 8 "एकव्यक्तिगतं किं वाऽनेकव्यक्तिसमाश्रितम् । व्यक्तिमात्रगतं यद्वा तदेकत्वं प्रतीयते ॥" स्या० रत्ना० पृ० १९९१ www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy