________________
६६
[ प्रथमपरि०
ऽवसीयते; न; तत्रापि शुद्धबोधस्याप्रतिभासनात् । स खलु 'अहं सुखी दुःखी स्थूलः कृशो वा' इत्यादिरूपतया सुखादि शरीरं चावलम्बमानोऽनुभूयते न पुनस्तद्व्यतिरिक्तं बोधस्वरूपम् । स्वतश्चाकाराणां भेदसंवेदने स्वप्रकाशनियंतत्वप्रसङ्गः, तथा ५ चान्योऽन्यासंवेदनात्कुतः स्वतोऽप्याकारभेदसंवित्तिः ।
प्रमेयकमलमार्त्तण्डे
अथैकरूपब्रह्मणो विद्यास्वभावत्वे तदर्थानां शास्त्राणां प्रवृत्तीनां च वैयर्थ्य निवर्त्यप्राप्तव्यस्वभावाभावात् । विद्यास्वभावत्वे चासत्यत्वप्रसङ्गः; तथाच "सत्यं ज्ञानमनन्तं ब्रह्म" [ तैत्त० २१] इत्यस्य विरोधः तदप्यसङ्गतम्, विद्याखभावत्वेऽप्यस्य शास्त्रा१० दीनां वैयर्थ्यासंभवात् अविद्याव्यापारनिवर्त्तनफलत्वात्तेषाम् । यत एव चाविद्या ब्रह्मणोऽर्थान्तरभूता तत्त्वतो नास्त्यत एवासौ निवर्त्यते, तत्वतस्तस्याः सद्भावे हि न कश्चिन्निवर्त्तयितुं शक्नुयाद् ब्रह्मवत् । सर्वैरेव चातात्त्विकानाद्यविद्योच्छेदार्थो मुमुक्षूणां प्रय तोऽभ्युपगतः । न चानदित्वेनाविद्योच्छेदासम्भवः, प्रागभीवे१५ नाऽनेकान्तात् । तत्त्वज्ञानप्रागभावरूपैव चाविद्या तत्त्वज्ञानलक्ष
विद्योत्पत्ती व्यावर्तत एव घटोत्पत्तौ तत्प्रागभाववत् । भिन्नाSभिन्नादिविकल्पस्य वै वस्तुविषयत्वात् अवस्तुभूताऽविद्यायामप्रवृत्तिरेव सैवेयमविद्या माया मिथ्याप्रतिभास इति ।
न च श्रवणमननध्यानादीनां भेदरूपतयाऽविद्यास्वभावत्वा२० त्कथं विद्याप्राप्तिहेतुत्वमित्यभिधातव्यम् ? यथैव हि रजःसंपर्ककलुषोदके द्रव्यविशेषचूर्ण रजःप्रक्षिप्तं रजोऽन्तराणि प्रशमयत्स्वयमपि प्रशम्यमानं स्वच्छां स्वरूपावस्थामुपनयति, यथा वा विषं विषान्तरं शमयति स्वयं च शाम्यति, एवमात्मश्रवणादिभिर्भेदाभिनिवेशोच्छेदात्, स्वगतेऽपि भेदे समुच्छिन्ने स्वरूपे संसारी समव
१८
१ प्रमाणं । २ पदार्थाः स्वप्रकाशनियताः । ३ भा ( तृतीया) । ४ अनुष्ठानानां । ५ अविद्या । ६ विद्या । ७ ग्रन्थस्य । ८ भिन्ना । ९ परमार्थतः । १० वादिभिः । ११ मोक्षार्थिनां । १२ यथा गगनस्य । १३ अनादिना । १४ उभय । १५ किञ्च । १६ स्वरूप । १७ श्रद्धान । १८ दुराग्रह । १९ सति । २० एकत्वे ।
1 "न च कर्माऽविद्यात्मकं कथमविद्यामुच्छिनत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेद इति वाच्यम्; सजातीयस्वपरविरोधिनां भावानां बहुलमुपलब्धेः । यथा पयः पयोऽन्तरं जरयति स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति स्वयं च शाम्यति, यथा वा कतकरजो रजोन्तराविले पाथसि प्रक्षिप्तं रजोन्तराणि भिन्दत् स्वयमपि भिद्यमानमनाविलं पाथः करोति एवं कर्म अविद्यात्मकमपि अविद्यान्तराण्यपगमयत् स्वयमप्यपगच्छतीति ।" ब्रह्मसू० शां० भा० भामती पृ० ३२ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org