SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सू० ११५]. ब्रह्माद्वैतवादः "ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव प्लक्षः से हेतुः सर्वजन्मिनाम् ॥" [ ] भेददर्शिनो निन्दा च श्रूयते-"मृत्योः स मृत्युमाप्नोति य ईंह नानेव पश्यति।" [बृहदा० उ०४।४।१९] इति । न चाभेदप्रतिपादकानायस्याऽध्यक्षबाधा; तस्याप्यभेदग्राहकत्वेनैव प्रवृत्तेः। तदुक्तम्-५ .. "आहुर्विधीत प्रत्यक्षं न निषेद्ध विपश्चितः । नैकत्वे आगमस्तेन प्रत्यक्षेण प्रवाध्यते ॥" [ ] किञ्च, अर्थानां मेदो देशभेदात् , कालभेदात्, आकारभेदाद्वा स्यात् ? न तावद्देशभेदात् ; स्वतोऽभिन्नस्याऽन्यमेदेऽपि मेदानुपपत्तेः । नान्यभेदोऽन्यत्र संक्रामति । कथं च देशस्य भेदः? १० अन्यदेशमेदाञ्चेदनवस्था । स्वतश्चेत् ; तर्हि भोवभेदोऽपि स्वत एवास्तु किं देशभेदान्दैकल्पनया? तन्न देशभेदाद्वस्तुभेदः । नापि कालभेदात्; तद्भेदस्यैवाध्यक्षतोऽप्रसिद्धः। तद्धि सन्निहितं वस्तुमात्रमेवाधिगच्छति नातीतादिकालभेदं तदूतार्थभेदं वा आकारभेदोऽप्यर्थानां भेदको व्यतिरिक्तप्रमाणात्प्रतिभाति, स्वतो १५ वा? न तावद् व्यतिरिक्तप्रमाणात्। तस्य नीलसुखादिव्यतिरिक्तस्वरूपस्याप्रतिभासमानत्वाद् । अथाहंप्रत्यये बोधात्मा तेंद्राहको . १ कोलिकः (कीटविशेषः)। २ लालारूपतन्तूनाम् । ३ वटः। ४ तथा । ५ यमात् । ६ पुरुषः। ७ ब्रह्मणि। ८ भेदमिव । ९ ब्रह्माणं । १० किञ्च । ११ आगमस्य । १२ विधायकं सन्मात्रग्राहकमित्यर्थः। १३ निषेधकं भेदग्राहकमित्यर्थः। १४ कारणेन। १५ स्वरूपेण। १६ स्वतोऽभिन्नस्य भास्करस्य यथा देशभेदाढ़ेदो न घटते तथा पदार्थानामिति भावः। १७ अन्यस्य देशस्य भेदोऽभिन्ने सूर्य न संक्रामति। १८ अनवस्थापरिहारार्थ । १९ अर्थे । २० देशभेदादिति पदं नास्ति च कचिद्न्थे। २१ बहिर्वस्तु । २२ अन्तर्वस्तु । २३ भिन्न । २४ आकारलक्षणमेद। - 1 "यथोर्णनामिः सृजते गृह्यते च यथा पृथिव्यामौषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम् ॥" मुण्डकोप० ११११७ “स यथोर्णनामिः तन्तूनुच्चरेत्, यथाः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेव अस्मादात्मनः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति..." बृहदा० २११।२० "यस्तूर्णनाम इव तन्तुभिः प्रधानजैः स्वभावतः । देव एकः स्वयमावृणोति स नो दधातु ब्रह्माऽव्ययम् ॥" श्वेताश्व० ६।१० "ऊर्णनाभिर्यथा तन्तून्..." ब्राह्म० ३ । "ऊर्णनाभीव तन्तुना..." कशुर० ९ । "ऊर्णनामो मर्कटकः" तत्त्वसं ० पं० । .2 "यतो मेदः प्रत्यक्षप्रतीतिविषयत्वेनाभ्युपगम्यमानः किं देशभेदादभ्युपगम्यते, आहोस्वित् कालभेदात् , उत आकारभेदात् ?" सन्मति० टी० पृ० २७३ । स्या. रत्ना० पृ० १९२। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy