________________
सू० ११३] विपर्ययज्ञाने अख्यात्यादिविचारः नालम्बनम् ; तत्त्वे वा तेंद्रहणस्याभ्रान्तत्वैप्रसङ्गः । तोयाकारेण मरीचिग्रहणमित्यप्ययुक्तम् । तदन्यत्वात् । न खलु घटाकारेण तदन्यस्य पटादेर्ग्रहणं दृष्टम् । ततो निरालम्बनं जलादिविपर्ययज्ञानम् ; इत्यप्यविचारितरमणीयम्; विशेषतो व्यपदेशाभावप्रसङ्गात् । यत्र हि न किञ्चिदपि प्रतिभाति तत्केन विशेषेण जल-५ ज्ञानं रजतज्ञानमिति वा व्यपदिश्येत ? भ्रान्तिसुषुप्तावस्थयोरविशेषप्रसङ्गश्च । न ात्र प्रतिभासमानार्थव्यतिरेकेणान्योऽस्ति विशेषः। प्रतिभासमानश्च तज्ज्ञानस्यालम्बनमित्युच्यते । तन्नाख्यातिरेव विपर्ययः।
सत्यमेतत् ; तथापि प्रतिभासमानोऽर्थः सद्रूपो विचार्यमाणो १० नास्तीत्यसत्ख्यातिरेवासौ । शुक्तिकाशकले हि न शुक्तिकादिप्रतिभासः, किं तर्हि ? रजतप्रतिभासः । स च रजताकारस्तत्र नास्तीति;
तदयुक्तम् । इत्यपरः । कस्मात् ? असंतः खपुष्पादिवत्प्रतिभासासम्भवात् । भ्रान्तिवैचित्र्याभावप्रसङ्गश्च; न हसत्ख्यातिवा-१५ दिनोऽर्थगतं ज्ञानगतं वा वैचित्र्यमस्ति येनानेकप्रकारा भ्रान्तिः स्यात् । तस्मात्प्रमाणप्रसिद्ध एवार्थो विचित्रस्तंत्र प्रतिभाति । न चौस्य विचार्यमाणस्यासत्त्वम् ; विचारस्य प्रतीतिव्यतिरेकेणाऽन्यस्यासम्भवात् । प्रतीत्यबाधितत्वाञ्च; करतलादेरपि हि प्रतिभासबलेनैव सत्त्वम् , स च प्रतिभासोऽन्यत्राप्यस्ति । यद्यप्युत्तर-२० कालं तथा सोऽर्थो नास्ति, तथापि यदा प्रतिभाति तदा तावद.१ मरीचिविषयत्वे च। २ शानस्य । ३ ज्ञानस्य सत्यार्थग्राहकत्वात् । ४ तोयात् । ५ शाने। ६ निर्विषयं । ७ ज्ञाने। ८ नं। ९ भ्रान्तशाने। १० जल । ११ स्याद्वादिभिरुक्तम् । १२ माध्यमिकोऽब्रवीत् । १३ जलादिः । १४ तज्ज्ञानस्याभ्रान्तताप्रसंगात् । १५ विपर्ययः । १६ जल । १७ विपर्ययस्थले । १८ सालयः । १९ शुक्तिकायां रजतज्ञानमेकचन्द्रे द्विचन्द्रशानमित्यादि । २० अर्थस्याऽसत्वात् । २१ शानखेनैकादृशत्वात् । २२ सत्यभूतः। २३ नानाप्रकारः। २४ भ्रान्तत्वेन उपगते शाने। २५ रजताधर्थस्य । २६ पूर्वकालवत् ।
1 विपर्ययज्ञाने अख्यातिवादस्य अनयैवानुपूर्व्या विचारः न्यायकु० चं० प्र० परि० तथा स्था० रत्ना० पृ० १२४ इत्यादिषु द्रष्टव्यः ।
2 "असतः प्रख्योपाख्याविरहितस्य खपुष्पादिवत् प्रतिभासाऽसंभवात्...भ्रान्तिवैचित्र्याभावप्रसंगश्च । न्यायकु. चं० प्र० परि० । स्या० रत्नाकर पृ० १२५ ।
3 असत्ख्यातेः प्रतिविधानं न्यायवा० ता० टी० पृ० ८६, न्यायमं० पृ०१७७, न्यायकु० प्र० परि०, स्या० रत्ना० पृ० १२५ । इत्यादिषु द्रष्टव्यम् ।
प्र०क० मा०५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org