________________
सू० ११३] संशयस्वरूपसिद्धिः - नंनु व्यवसायात्मकविज्ञानस्य प्रामाण्ये निखिलं तदात्मकं ज्ञानं प्रमाणं स्यात्, तथा च विपर्ययज्ञानस्य धारावाहिविज्ञानस्य च प्रमाणताप्रसङ्गात् प्रतीतिसिद्धप्रमाणेतरव्यवस्थाविलोपः स्यात् , इत्याशङ्ख्याऽतिप्रसङ्गापनोदार्थम् अपूर्वार्थविशेषणमाह । अतोऽनयोरनर्थविषयत्वाविशेषग्राहित्वाभ्यां व्यवच्छेदः सिद्धः। यद्वाने-५ नाऽपूर्वार्थविशेषणेन धारावाहिविज्ञानमेव निरस्यते । विपर्ययज्ञानस्य तु व्यवसायात्मकत्वविशेषणेनैव निरस्तत्वात् संशयादिस्वभावसमारोपविरोधिग्रहणत्वात्तस्य ।
ननु संशयादिज्ञानस्यासिद्धस्वरूपत्वात्कस्य व्यवसायात्मकत्वविशेषणत्वेन निरासः ? संशयज्ञाने हि धर्मी, धर्मो वा प्रति-१० भाति ? धर्मी चेत् । स तात्त्विकः, अतात्त्विको वा? तात्त्विकश्चेत् ; कथं तद्बुद्धेः संशयरूपता तात्त्विकार्थगृहीतिरूपत्वात्करतलादिनिर्न(ण)यवत् ? अथातात्त्विकः; तथाप्यतात्त्विकार्थविषयत्वात् केशोण्डुकादिज्ञानवद् भ्रान्तिरेव संशयः । अथ धर्मः-स स्थाणुत्वलक्षणः, पुरुषत्वलक्षणः, उभयं वा ? यदि स्थाणुत्वल-१५ क्षणः, तत्र तात्त्विकाऽतात्त्विकयोः पूर्ववद्दोषः । अथ पुरुषत्वलक्षणः; तत्राप्ययमेव दोषः। अथोभयम् । तथाप्युभयस्य तात्त्विकत्वाऽतात्त्विकत्वयोः स एव दोषः। अथैकस्य तात्त्विकत्वमन्यस्यातात्त्विकत्वम् ; तथापि तद्विषयं ज्ञानं तदेव भ्रान्तमभ्रान्तं चेति प्राप्तम् । अथ सन्दिग्धोर्थस्तंत्र प्रतिभासते; सोपि विद्युते २० न वेत्यादिविकल्पे तदेव दूषणम् । तन्न संशयो घटते । नापि विपर्ययस्तस्यापि स्मृतिप्रमोषाद्यभ्युपगमेनाव्यवस्थितेः।
इत्यप्यसमीचीनम् । यतः संशयः सर्वप्राणिनां चलितप्रतिपत्यात्मकत्वेन स्वात्मसंवेद्यः। स धर्मिविषयो वास्तु धर्मविषयो - १ परः। २ घटोऽयं घटोऽयमिति । (निश्चयानन्तरं तेनैवाकारेण पुनः पुनर्यत्प्रवर्तते तंजज्ञानम्)। ३ निश्चयात्मकत्वाविशेषात् । ४ परिहारः। ५ जैनैः । ६ प्रभाकरो ब्रूते [ ? तत्त्वोपप्लववादी ] । ७ पुरुषः । ८ पुरुषत्वं । ९ संशयो धर्मी संशयरूपतापन्नो न भवतीति साध्यो धर्मः तात्त्विकार्थगृहीतिरूपत्वात्। १० गृहीतिर्ग्रहणम् । ११ बसः। ( बेति शब्दैकदेशेन बहुव्रीहिग्रहणं सकारात्समासार्थबोध:)। १२ उभयप्रतिभासे । १३ स्थाणुत्वस्य । १४ स्थाणौ पुरुषत्वस्य । १५ उभय । १६ पूर्वोक्तं । १७ एका मेव शानं। १८ परः । १९ संशयशाने । २० तात्त्विकः । २१ मतात्त्विको वा। २२ उभयं । ...1-"तस्मिन् सन्देहशाने किंचित्प्रतिभाति आहोस्विन्न ? यदि किञ्चित् प्रतिभाति स किं धर्मी, धर्मों वा ? तत्त्वोप० लि. पृ० २६ । स्या०. रत्ना० पृ० १४३...?
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org