________________
४६
प्रमेयकमलमार्तण्डे [प्रथमपरि० वलिङ्गम् ; शब्दब्रह्माख्यधर्मिण एवासिद्धेः । न ह्यसिद्धे धर्मिणि तत्स्वभावभूतो धर्मः स्वातन्येण सिद्ध्येत्। ..
यचोच्यते-'ये यदाकारानुस्यूतास्ते तन्मया यथा घटशरावोदश्चनादयो मृद्विकारा मृदाकारानुगता मृन्मयत्वेन प्रसिद्धाः, ५शब्दाकारानुस्यूताश्च सर्वे भावा ईति'; तदप्युक्तिमात्रम् ; शब्दाकारान्वितत्वस्यासिद्धेः । प्रत्यक्षेण हि नीलादिकं प्रतिपद्यमानोऽ. नाविष्टाभिलापमेव प्रतिपत्ता प्रतिपद्यते । कल्पितत्वाचास्याऽसिद्धिः। शब्दान्वितरूपाधारार्थासत्त्वेपि हि ते तदन्वितत्वेन त्वंया
कल्प्यन्ते । तथाभूताच्च हेतोः कथं पारमार्थिक शब्दब्रह्म १० सिद्ध्येत् ? साध्यसाधनविकलश्च दृष्टान्तो घटादीनामपि सर्वथै
कमयत्वस्यैकान्वितत्वस्य चासिद्धेः । न खलु भावानां परमार्थेनैकरूपानुगमोस्ति, सर्वार्थानां समानाऽसमानपरिणामात्मकत्वात् किंच, शब्दात्मकत्वेऽर्थानाम् शब्दप्रतीतौ सङ्केताग्राहिणोप्यर्थे
सैन्देहो न स्यात्तद्वत्तस्यापि प्रतीतत्वात् , अन्यथा तादात्म्य १५ विरोधः । अग्निपाषाणादिशब्दश्रवणाच्च श्रोत्रस्य दाहाभिघातादिप्रसङ्गः। तन्नानुमानतोपि तत्प्रतीतिः।
नाप्यागमात्, “सर्वं खल्विदं ब्रह्म" [मैत्र्यु.] इत्याद्यागमस्य ब्रह्मणोऽर्थान्तरभावे-द्वैतप्रसङ्गात् , अनर्थान्तरभावे तु-तद्वदागमस्याप्यसिद्धिप्रसङ्गः । तदेवं शब्दब्रह्मणोऽसिद्धेर्न शब्दानुविद्धत्वं २० सविकल्पकलक्षणं किन्तु समारोपविरोधिग्रहणमिति प्रतिपत्तव्यम्।
१ भवता परेण । २ शब्दमयाः । ३ हेतोः। ४ पदार्थ । ५ शब्देन रहितम् । ६ ज्ञाता । ७ शब्दान्वितत्वस्य । ८ अर्थाः । ९ शब्द । १० परेण । ११ कल्पित. शब्दान्वितत्वरूपात् । १२ विसदृश। १३ पुरुषस्य । १४ अयं घटः पटो वेत्यादि । १५ शब्दवन्नीलादेरपि । १६ सन्देहश्चेत् । १७ अग्यार्थाभिन्नशम्दस्य श्रोत्रसम्बन्धित्वात् । १८ न च तथास्ति । १९ ब्रह्म । २० आगमो भिन्नो ब्रह्मणः । २१ तस्मात्कारणात् उक्तप्रकारेण । २२ शानम् ।।
___ 1 "शब्दार्थयोश्च तादात्म्ये क्षुराग्निमोदकादिशब्दोच्चारणे आस्यपाटनदहनपूरणादि. प्रसक्तिः । सन्मति० टी० पृ० ३८६ । शास्त्रवा० टी० पृ० २३७पू० ।
2 " ब्रह्म खल्विदं वाव सर्वम्" मैत्र्यु० ४।६। ।
3 शब्दब्रह्मवादस्य विविधरीत्या खण्डनं निम्नग्रन्थेषु द्रष्टव्यम्-मीमांसालो. प्रत्यक्षसू० श्लो० १७६ । न्यायमं० पृ० ५३१ । तत्त्वसं० पृ० ६७ । तत्त्वार्थश्लो. पृ० २४० । न्यायकु० प्र० परि० । सन्मति० टी० पृ० ३८०,४९४ । स्या. रत्ना० पृ० ८८ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org