________________
सू० ११३] शब्दाद्वैतविचारः ___ अनुमानात्तेषां तदनुविद्धत्वप्रतीतिरित्यपि मनोरथमात्रम्; तदविनाभाविलिङ्गाभावात् । तत्सम्भवे वाऽध्यक्षादिबाधितपक्ष. निर्देशानन्तरं प्रयुक्तत्वेन कालात्ययापदिष्टत्वाच्च । अथ जगतः शब्दमयत्वात्तदुदरवर्तिनां प्रत्ययानां तन्मयत्वात्तदनुविद्धत्वं सिद्धमेवेत्यभिधीयते; तदप्यनुपपन्नमेव तत्तन्मयत्वस्याध्यक्षादि-५ बाधितत्वात् , पदवाक्यादितोऽन्येस्य गिरितरुपुरलतादेस्तदाकारपराङ्मुखेणैव सविकल्पकाध्यक्षणात्यन्तं विशदतयोपलम्भात् । 'ये यदाकारपराङ्मुखास्ते परमार्थतोऽतन्मयाः यथा जलाकारविकलाः स्थासकोशकुशूलादयस्तत्त्वतो न तन्मयाः, परमार्थतस्तदाकारपराङ्मुखाश्च पदवाक्यादितो व्यतिरिक्ता गिरितरुपुरल-१० तादयः पदार्थाः' इत्यनुमानतोस्य तद्वैधुर्यसिद्धेश्च । . किंच, शब्दपरिणामरूपत्वाजगतः शब्दमयत्वं साध्यते, शब्दादुत्पत्तेर्वा ? न तावदाद्यः पक्षः; परिणामस्यैवात्रासम्भवात्। शब्दात्मकं हि ब्रह्म नीलादिरूपतां प्रतिपद्यमानं स्वाभाविक शब्दरूपं परित्यज्य प्रतिपद्येत, अपरित्यज्य वा ? प्रथमपक्षे-१५ अस्याऽनादिनिधनत्वविरोधः पौरस्त्यस्वभावविनाशात् । द्वितीयपक्षे तु-नीलादिसंवेदनकाले बधिरस्यापि शब्दसंवेदनप्रसङ्गो नीलादिवत्तव्यतिरेकात् । यत्खलु यदव्यतिरिक्तं तत्तस्मिन्संवेद्यमाने संवेद्यते यथा नीलादिसंवेदनावस्थायां तस्यैव नीलादेरात्मा, नीलाद्यव्यतिरिक्तश्च शब्द इति । शब्दस्यासंवेदने वा २० नीलादेरप्यसंवेदनप्रसङ्गः तादात्म्याविशेषात्, अन्यथा विरुद्ध-... धर्माध्यासात्तस्य ततो भेदप्रसङ्गः । न ह्येकस्यैकदा एकप्रतिपत्रपेक्षया ग्रहणमग्रहणं च युक्तम् । विरुद्धधर्माध्यासेप्यंत्र भेदा
'.. १ तेषां प्रत्ययानां । २ शब्द। ३ सर्वे प्रत्ययाः शब्दानुविद्धा इत्यत्र साध्ये साधनाभावः । ४ श्लोक। ५ भिन्नस्य । ६ शब्दानुविद्धत्वराहित्य । ७ शब्दब्रह्मणि । ८ स्वीकुर्वत् । ९ वस्तु। १० तादात्म्यसद्भावात् । ११ का (पञ्चमी पञ्चमीसमास इत्यर्थः) । १२ शब्दस्य । १३ नीलादेरेव संवेदनं न शब्दस्येति चेत् । १४ वेद्यावैद्यत्वधर्मसाहित्यात् । १५ ब्रह्मणः । १६ नीलात् । १७ अभिन्नस्य शब्दलिङ्गस्य । १८ अन्यथा । १९ नीलनीलशब्दयोः।
1 "अत्र कदाचिच्छब्दपरिणामरूपत्वाद्वा जगतः शब्दमयत्वं साध्यत्वेनेष्टम् , कदाचिच्छन्दादुत्पत्तेर्वा .. शब्दात्मकं ब्रह्म नीलादिरूपता प्रतिपद्यमानं कदाचिनिज स्वाभाविक शब्दरूपं परित्यज्य प्रतिपद्येत, अपरित्यज्य वा?" तत्त्वसं० पं० पृ०६८। न्यायकु० च० प्र० परि० । सन्मति० टी० पृ० ३८० । स्या० रत्नाकर पृ० १००।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org