________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० "स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा। वैखरी वाक् प्रयोक्तणां प्राणवृत्तिनिबन्धना ॥१॥ प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते । अविभागाऽनु(गा तु)पश्यन्ती सर्वतः संहँतक्रमा ॥२॥ स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी। तया व्याप्तं जगत्सर्वं ततः शब्दात्मकं जगत् ॥ ३॥" .
[ ] इत्यादि।
१ कण्ठादिषु। २ प्रसूते सति। ३ पुरुषेण । ४ हृदिस्थो वायुः प्राणः । ५ परित्यज्य । ६ वर्णादिरहिता । ७ नष्टवर्णादिक्रमो यतः। ८ शाश्वती।। भ्रंशमसङ्कीर्ण लोकव्यवहारातीतम् । तस्या एव वाचो व्याकरणेन साधुत्वज्ञानलभ्येन शब्दपूर्वेण योगेनाऽधिगमः इत्येकेषामागमः..." वाक्यप० टी० १११४४ "उक्तंच-वैखरी शब्दनिष्पत्तिः मध्यमा श्रुतिगोचरा।। घोतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥"
कुमारसं० टी० २।१७। 1 "अस्यार्थ:-स्थानेषु ताल्वादिस्थानेषु, वायौ प्राणसंक्षे, विधृते अभिघातार्थ निरुद्धे सति, कृतवर्णपरिग्रहेति हेतुद्वारेण विशेषणम् ततः ककारादिवर्णरूपस्वीकारात् वैखरी संज्ञा वक्तभिर्विशिष्टायां खरावस्थायां स्पष्टरूपायां भवा वैखरीति निरुक्तेः । वाकप्रयोक्तृणां सम्बन्धिनी । यदा तेषां स्थानेषु तस्याश्च प्राणवृत्तिरेव निबन्धनं तत्रैव निबद्धा सा तन्मयत्वादिति" स्या० रत्नाकर पृ० ८९ ।
2 "या पुनरन्तःसङ्कल्प्यमाना क्रमवती श्रोत्रग्रायवर्णरूपाऽभिव्यक्तिरहिता वाक् सा मध्यमेत्युच्यते। । तदुक्तम्-केवलं बुद्ध्युपादानात् क्रमरूपानुपातिनी। . .... .. . .. प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ स्थूलां प्राणवृत्तिं हेतुत्वेन वैखरीक्दनपेक्ष्य केवलं बुद्धिरेव उपादानं हेतुर्यस्याः सा प्राणस्थत्वात् क्रमरूपमनुपतति । अस्याश्च मनोभूमाववस्थानम् वैखरीपश्यन्त्योर्मध्ये भवात् मध्यमा वागिति ।" स्या० रत्नाकर पृ० ८९ ।
3 "या तु ग्रामभेदक्रमादिरहिता स्वप्रकाशा संविद्रूपा वाक् सा पश्यन्तीत्युच्यते"... यस्यां वाच्यवाचकयोविभागेनाक्भासो नास्ति सर्वतश्च सजातीयविजाबीयापेक्षया संहृतो वाच्यानां वाचकानां च क्रमो देशकालकृतो यत्र, कमविवशक्तिस्तु विद्यते" स्या० रत्नाकर पृ० ९० ।
4 "स्वरूपज्योतिः स्वप्रकाशा वेधते वेदकभेदातिकमात् । सूक्ष्मा-दुर्लक्ष्या, अनपायिनी कालभेदाऽस्पर्शादिति ।" स्या० रत्नाकर पृ० ९०।15 चतुर्विधवाचां स्वरूपं तत्त्वार्थश्लोकवात्तिकेऽपि (पृ० २४१) वणितमस्ति । एते अयः श्लोकाः वाक्यपदीयटीकायां (पृ० ५६) 'पुनश्चाह' इति कृत्वा उद्धृताः वर्तन्ते ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org