________________
शब्दाद्वैतविचारः
सू० १1३]
४१
सारम्; अन्योन्याश्रयानुषङ्गात् तथाविधार्थदर्शन सिद्धी वचनपेरिकरितार्थस्मरणसिद्धि:, ततश्च तथाविधार्थदर्शन सिद्धिरिति ।
と
का चेयमर्थस्याभिधानानुषक्तता नाम - अर्थशाने तत्प्रतिभासः, अर्थदेशे तद्वेदनं वा, तत्काले तत्प्रतिभासो वा ? न तावदाद्यो विकल्पः । लोचनाध्यक्षे शब्दस्याप्रतिभासनात् । नापि द्वितीयः ५ शब्दस्य श्रोत्रप्रदेशे निरस्तशब्दसन्निधीनां च रूपादीनां स्वप्रदेशे स्वविज्ञानेनानुभवात् । नापि तृतीयःः तुल्यकालस्याप्यभिधानस्य लोचनज्ञाने प्रतिभासाभावात्, भिन्नज्ञानवेद्यत्वे च भेदप्रसङ्ग इत्युक्म् । कथं चैवंवादिनो बालकादेरर्थदर्शनसिद्धिः, तंत्राभिधानाप्रतीतेः, अभ्वं विकल्पयतो गोदर्शनं वा ? न हि तदा गोशब्दोल्लेखं- १० स्तज्ज्ञानस्यानुभूयते युगपदृत्तिद्वयानुत्पत्तेरिति । कथं वा वाग्रूपताऽवबोधस्य शाश्वती यतो 'वाग्रूपता चेदुत्क्रामेत्' इत्याद्यवतिष्ठेत लोचनाध्यक्ष तत्संस्पर्शाभावात् ? न खलु श्रोत्रग्राह्यां वैखरी वाचं तत् संस्पृशति तस्यास्तदविषयत्वात् । अन्तर्जल्परूपां मध्यमां वो तामन्तरेणापि शुद्धसंविदोर्भावात् । संहृताशेषर्वर्णा- १५ दिविभागानु (तु) पश्यन्ती, सूक्ष्मा चान्तर्ज्योतीरूपा वागेव न भवति; अनयोरर्थात्मदर्शनलक्षणत्वात् वाचस्तु वर्णपदानुक्रमलक्षणत्वात् । ततोऽयुक्तमेतत्तल्लक्षणप्रणयनम्
१ वामूपताविशेषणविशिष्टार्थ । २ सहित । ३ अर्धज्ञान | ४ अर्थेन सह । ५ पूर्वमेव । ६ अभिधानानुषक्तार्थ एव प्रत्यक्षे प्रतिभातीत्येवंवादिनः । ७ मूक । ८ अर्थदर्शने । ९ प्रतिभासः । १० नित्या । ११ श्रोत्रं बहिष्कृत्य । १२ वाग्रूपता । १३ वचनात्मिकां । १४ लोचनाध्यक्षं । १५ लोचनाध्यक्षं न संस्पृशति । १६ लोचनशानस्य । १७ नष्ट | १८ पदवाक्य । १९ अर्थदर्शनं । २० अर्थदर्शनलक्षणा । २१ आत्मदर्शनलक्षणा । २२ वाक्य |
1 “वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अनेकतीर्थमेदावारा वाचः परं पदम् ॥ १४४ ॥
यस्याः श्रोत्रविषयत्वेन प्रतिनियतं श्रुतिरूपं सा वैखरी, शिष्टवर्णसमुच्चारणप्रसिद्धसाधुक जीवा सेरकारी दुन्दुभिवेणुवीणादिशब्दरूपा चैत्यपरमितभेदा । मध्यमा तु अन्तः सन्निवेशिनी परिगृहीतक्रमेव । बुद्धिमात्रोपादाना सूक्ष्म प्राणवृत्त्यनुगता प्रतिसंहतया सत्यप्यभेदे समाविष्टक्रमशक्तिः । पश्यन्ती तु सा चलाचला प्रतिबद्धसमाधाना सन्निविष्टाकारा प्रतिलीनाकारा निराकारा च परिच्छिन्नार्थे प्रत्यवभासा संसृष्टार्थप्रत्यचसाच प्रशान्तसर्वार्थप्रत्यवभासा चेत्यपरे मितभेदां । तंत्र व्यावहारिकीषु सर्वासु वारा व्यवस्थितसाध्वसाधुप्रविभागा पुरुषसंस्कारहेतुः परन्तु पश्यन्त्या रूपमनप
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org