SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [प्रथमपरि० संभवे हिमवद्विन्ध्यादिमेदानामप्यभेदानुषङ्गः । किंच, असौ शब्दात्मा परिणामं गच्छन्प्रतिपदार्थमेदं प्रतिपद्यत, न वा ? तत्राद्यविकल्पे-शब्दब्रह्मणोऽनेकत्वप्रसङ्गः, विभिन्नानेकार्थखभावात्मकत्वात्तत्स्वरूपंवत् । द्वितीयविकल्पे तु-सर्वेषां नीलादीनां ५देशकालखभावव्यापारावस्थादिभेदाभावः प्रतिभासमेदाभावश्चानुषज्येत-एकखभावाच्छब्दब्रह्मणोऽभिन्नत्वात्तत्खरूपंवत् । तन्न शब्दपरिणामरूपत्वाजगतः शब्दमयत्वम् । नापि शब्दादुत्पत्तेः, तस्य नित्यत्वेनाविकारित्वात्, क्रमेण कार्योत्पादविरोधात् सकलकार्याणां युगपदेवोत्पत्तिः स्यात् । १० कारणवैकल्याद्धि कार्याणि विलम्बन्ते नान्यथा। तश्चेदविकलं किम परं तैरपेक्ष्यं येन युगपन्न भवेयुः ? किंच, अपरापरकार्यग्रामोऽतोऽर्थान्तरम् , अनर्थान्तरं वोत्पद्येत ? तत्रार्थान्तरस्योत्पत्तौ-कथं 'शब्दब्रह्मविवर्तमर्थरूपेण' इति घटते । न यर्थान्तरस्योत्पादे अन्यस्य तत्वभावमनाश्रयतः ताद्रूप्येण विवर्ती युक्तः। तदनर्था१५न्तरस्य तूंत्पत्तौ-तस्यानादिनिधनत्वविरोध।। ननु परमार्थतोऽनादिनिधनेऽभिन्नखभावेपि शब्दब्रह्मणि अविद्यौतिमिरोपहतो जनः प्रादुर्भावविनाशवत् कार्यभेदैन विचित्रमिव मन्यते । तदुक्तम् "यथा विशुद्धमाकाशं तिमिरोपैलुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते । [मृहदा० भा० वा० ३१५५४३] १ ब्रह्मा । २ उत्पादविनाशं । ३ नीलत्वपीतत्वादि । ४ विभिन्नानेकार्थस्वरूप. वत् । ५ पदाथैः सहैकत्वे। ६ शान। ७ प्रमेयभेदाद् शानभेद इति वचनात् । ८ पदार्थेभ्यः । ९ शब्दब्रह्मस्वरूपवत् । १० शब्दब्रह्मणः । ११ कार्यैः । १२ घट. पटादि। १३ शब्दब्रह्मणः। १४ भिन्नमभिन्नं वा। १५ पूर्वमुक्तं विवर्ततेऽर्थभावेनेति । १६ अपरापरकार्यग्रामस्स। १७ शन्दब्रह्मणः। १८ अर्थान्तर । १९ अर्थान्तररूपेण । २० ब्रह्म । २१ सत्यां । २२ शब्दब्रह्मणः । २३ उत्पाद विनाशात्मकादर्थादभिन्नत्वात् । २४ अमेदरूपे मेदरूपप्रतिमासः । २५ वतुः इवायें। २६ घटपटादि । २७ नानारूपं । २८ उपहतः । २९ संछिन्नम् । ३० रेखामिः। ३१ नानारूपामिः। 1 स हि शब्दात्मा परिमाणं गच्छन् प्रतिपदार्थ भेदं वा प्रतिपद्यते न वा " तत्त्वेस० पृ० ७० । न्यायकु० प्र० परि० । सम्मति० टी० पृ० ३८२ । स्या. रखाकर पृ० १०१। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy