SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सू० १।३ ] बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खंडनम् ३५ ज्यते; सर्वथैकस्वभावस्यान्तर्बहिर्वा वस्तुनोऽनभ्युपगमात् । तन्मते हि अवग्रहेहावायज्ञानादनभ्यासात्मकाद् अन्यदेवाभ्यासात्मकं धारणाशानं प्रत्यक्षम् । तदभावे परोपन्यस्तसकलवर्णादिषु अवनहादित्रयसद्भावेपि स्मृत्यनुत्पत्तिः, तत्सद्भावे तु स्यादेव-सर्वत्र यथासंस्कारं स्मृत्युत्पत्त्यभ्युपगमात् । न च परेषामप्ययं युक्तः-५ दर्शनभेदाभावात् , एकस्यैव कॅचिदभ्यासादीनामितरेषां वानभ्युपगमात् । न च तदन्यव्यावृत्त्या तंत्र तद्योगः; स्वयमतत्वंभावस्य तदन्यव्यावृत्तिसम्भवे पावकस्याऽशीतत्वादिव्यावृत्तिप्रसङ्गात् । तत्स्वभाव॑स्य तु तदन्यव्यावृत्तिकल्पने-फलाभावात्-प्रतिनियततत्वंभावस्यैवान्यव्यावृत्तिरूपत्वात्।। स्यान्मतम् अभ्यासादिसापेक्षं निरपेक्ष वा दर्शनं विकल्पस्य नोत्पादकम् शब्दार्थविकल्पवासनाप्रभवत्वात्तस्य । तद्वासनाविकल्पस्यापि पूर्वतद्वासनाप्रभवत्वादित्यनादित्वाद्विकल्पसन्तानस्य प्रत्यक्षसन्तानादन्यत्वात् , विजातीयोद्विजातीयस्योदयाँनिटेनोंक्तदोषानुषङ्गः; इत्यप्यसङ्गतम् ; तस्य विकल्पाजनकत्वे “यत्रैव १५ जनयेदेनां तत्रैवास्येप्रमाणता" [ ] इत्यस्य विरोधानुषङ्गात् । कथं वा वासनाविशेषप्रभवत्त(वात् ततोऽध्यक्षस्य रूपादिविषयत्वनियमः मनोराज्यादिविकल्पादपि तत्प्रसङ्गात् ? प्रत्यक्ष १ निरंशस्य । २ जनानां। ३ अर्थे । ४ संस्कारानतिक्रमेण । ५ नैनैः । ६ सौगतानाम् । ७ दर्शनं नीलादौ विकल्पोत्पादक क्षणक्षयादौ न भवेदिति न्यायः। ८ प्रत्यक्ष। ९ अवग्रहादिभेदात्प्रत्यक्षभेदो न दर्शनस्यैकरूपत्वात्। १० नीलादौ । ११ क्षणक्षयादौ अनभ्यासादीनाम् । १२ परेण । १३ अनभ्यासादेः । १४ अभ्यासादिरनभ्यासादिः । १५ दर्शने । १६ यच्चाक्रममनभ्यासस्याभ्यासस्य च । १७ अभ्यासानभ्यासादि । १८ स्वरूपेण । १९ अभ्यासाद्यस्वभावस्य । २० अभ्यासादि । २१ अनभ्यासादि। २२ अभ्यासादि । २३ स्वरूपस्य । २४ दर्शनस्य । २५ अभ्यासादि। २६ अनभ्यासादि। २७ दर्शनस्वभाव। २८ प्रकरणादि । २९ अभ्यासादिस्वभावस्य दर्शनस्य । ३० अनभ्यासादि । ३१ विकल्पस्य । ३२ शब्दार्थो नाम सामान्यं । ३३ वासनारूप। ३४ भिन्नत्वात् । ३५ दर्शनात् । ३६ विकल्पस्य । ३७ अनङ्गीकारात् । ३८ न चास्य विकल्पोत्पादकत्वं घटते स्वयमविकल्पकत्वात्स्वलक्षणवदित्यादि । ३९ दर्शनस्य । ४० अर्थे । ४१ सविकल्पात्मिकां बुद्धि । ४२ दर्शनस्य । ४३ किंच। ४४ नयनाध्यक्षस्य । ४५ अन्यथा। 1 तु०-'शब्दार्थविकल्पवासनाप्रभवत्वान्मनोविकल्पस्य ...ततस्तहिं कथमक्षबुद्धेः रूपादिविषयत्वनियमः.... अष्टश० अष्टसह० पृ० ११९ स्या० रत्नाकर पृ० ५६ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy