________________
३६
प्रमेयकमलमार्तण्डे [प्रथमपरिक्ष सहकारिणो वासनाविशेषादुत्पन्नादूपादिविकल्पात्तस्य तनियमे खलक्षणविषयत्वेनियमोप्यत एवोच्यताम् , अन्यथा रूपादिविषयत्वनियमोप्यतो मा भूदविशेषात् । तथाच-स्वलक्षणगोचरोऽसौ प्रत्यक्षस्य तन्नियमहेतुत्वाद्रंपादिवत् । रूपाद्युल्लेखित्वा५द्विकल्पस्य तद्बलात्तनियमस्यैवाभ्युपगमे-प्रत्यक्षस्यभिलापसंसगोपि तद्वदनुमीयेत-विकल्पस्याभिलपनाभिलँप्यमानजात्याद्युल्लेखिततयोत्पत्यन्यथानुपपत्तेः । तथाविधदर्शनस्याप्रमाणसिद्धत्वाच्च आत्मैवाहम्प्रत्ययप्रसिद्धः प्रतिबन्धकापायेऽभ्यासाद्यपेक्षो विकल्पोत्पादकोऽस्तु किमद्देष्टपरिकल्पनया? ततो विकल्पः प्रमा१० णम् संवादकत्वात् , अर्थपरिच्छित्तौ साधकतमत्वात्, अनिश्चि
तार्थनिश्चायकत्वात् , प्रतिपेत्रपेक्षणीयत्वाच्च अनुमानवत्, नतु निर्विकल्पकं तद्विपरीतत्वात्सन्निकर्षादिवत् ।
तस्याप्रामाण्यं पुनः स्पष्टाकारविकलत्वात्, अँगृहीतग्राहित्वात्, अँसति प्रवर्तनात्, हिताहितप्राप्तिपरिहारासमर्थत्वात् , १५ कदाचिद्विसंवादात्, समारोपानिषेधकत्वात् , व्यवहारानुपयोगीत् , स्खलक्षणागोचरत्वात्, शब्दसंसर्गयोग्यप्रतिभासत्वात्, शब्दप्रभवेत्वात् , (ग्राह्यार्थ विना तन्मात्रप्रभवत्वाद्वा) गत्यन्तरा
१ क्षणिकादि । २ दर्शनस्य । ३ परेण भवता । ४ विकल्पात् । ५ दर्शनस्य । ६ विकल्पात्प्रत्यक्षस्खलक्षण विषयत्वनियमे च। ७ स्खलक्षणविषय । ८ यद्धि यद्विषयक तदेवापरस्य तद्विषयत्वनियमहेतुर्यथा रूपादि विषयको विकल्पो रूपविषयत्वनियमहेतुः प्रत्यक्षस्य । ९ अध्यक्षस्य रूपादिविषये नियमहेतुत्वाद्यथा रूपादि विषयो विकल्पः तथाध्यक्षस्य स्वलक्षणनियमहेतुत्वात्स्वलक्षणविषयोपि विकल्पः स्यात्। १० सप्तमी। ११ परामर्शित्वात् । १२ प्रत्यक्षस्य(निश्चयस्य)। १३ रूपादिविषयत्व । १४ शब्दसम्बन्धोपि । १५ प्रत्यक्षं रूपादिनियतविषयं विकल्पस्य रूपाद्युल्लेखित्वेनोत्पत्त्यन्यथानुपपत्तरित्यनुमानेन रूपादि विषयत्वनियमोऽनुमीयते यद्वत् । १६ शब्द । १७ वाच्य। १८ सामान्यविषय । १९ शब्दत्वेन तु दर्शनस्य तद्विपरीतत्वात् । २० किंच। २१ निर्विकल्पक। २२ स्वसंवेदनवेद्यः । २३ आवरण। २४ निर्विकल्पकदर्शन। २५ मनोराज्यादि विकल्पवत् । २६ प्रमात। २७ रहितत्वात् । २८ मनोराज्यादि विकल्पवत् । २९ धारावाहिकशानवत् । ३० केशोण्डुकशानवत् । ३१ द्विचन्द्रादिशानवत् । ३२ स्थाणौ विसंवादे पुरुषविकल्पवत् । ३३ संशय ज्ञानवत् । ३४ गच्छत्तणस्पर्शशानवत् । ३५ भ्रान्तशानवत् । ३६ अर्ध । ३७ अङ्गुल्यादिवाक्यजनितविकल्पवत् । ३८ अङ्गुत्यादिजनितवाक्यवत् ।
1 तु.-'अपि च सविकल्पकस्याऽप्रामाण्यम्... स्या० रत्नाकर पृ० ५७ 2-अग्रिमखंडनानुरोधेन अयमपि 'मूलविकल्प एव' इत्यनुसन्धीयते
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org