________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० क्षणक्षयादोवप्यविशेषात् । अथ बहुशो विकल्पोत्पत्तिरभ्यासः; तस्य क्षणाक्षयादिदर्शने कुतोऽभावः ? तस्य विकल्पवासनाप्रबोधकत्वाभावाच्चेत् ; अन्योन्याश्रयः-सिद्धे हि क्षणक्षयादौ दर्शनस्य विकल्पवासनाप्रबोधकत्वाभावे तल्लक्षणाभ्यासाभावसिद्धिः, त५सिद्धौ चास्य सिद्धिरिति । क्षणिकाक्षणिकविचारणायां क्षणिक प्रकरणमप्यस्त्येव । पाटवं तु नीलादौ दर्शनस्य विकल्पोत्पादकत्वम् , स्फुटतरानुभवो वा स्यात् , अविद्यावासनाविनाशादात्मलाभो वा? प्रथमपक्षे-अन्योन्याश्रयात् । द्वितीयपक्षे तु-क्षणक्ष
यादावपि तत्प्रसङ्गः स्फुटतरानुभवस्यात्राप्यविशेषात् । तृतीयप१० क्षोप्ययुक्तः, तुच्छस्वभावाभावानभ्युपगमात् । अंन्योत्पादककारणवभावस्योपगमे क्षणक्षयादौ तत्प्रसङ्गः, अन्यथा दर्शनभेदः स्याविरुद्धधर्माध्यासात् । योगिन एव चैं तथाभूतं तत्सम्भाव्येत, ततोऽस्यापि विकल्पोत्पत्तिप्रसङ्गात् "विधूतकल्पनाजाल" [ ] इत्यादिविरोधैः । अर्थित्वं चाभिलषितत्वम् , जिशा१५ सितत्वं वा? प्रथमपक्षोऽयुक्तः, क्वचिदनभिलषितेपि वस्तुनि तस्याः
प्रबोधदर्शनात् । चक्रकप्रसङ्गश्च-अभिलषितत्वस्य वस्तुनिश्चयपूर्वकत्वात् । द्वितीयपक्षेतु-क्षणक्षयादौ तेंद्वासनाप्रबोधप्रसङ्गो नीलादाविवात्रापि जिज्ञासितत्वाविशेषात् । . न चैवं सविकला(ल्प)कप्रत्यक्षवादिनामपि प्रतिवाद्युपन्यस्तस२० कलवर्णपदीदीनां स्वोच्छासौदिसंख्यायाश्चाविशेषेण स्मृतिः प्रेस
१ पश्यन्नयं क्षणिकमेव पश्यतीति वचनात् । २ इदं क्षणिकमिदं क्षणिकमिति । ३ पश्यन्नयं क्षणिकमेव पश्यतीति वचनात् । ४ क्षणिकादौ दर्शनस्य विकल्पवासनाप्र. बोधकत्वाभावे सिद्धे विकल्पोत्पादकत्वलक्षणपाटवाभावसिद्धिस्तत्सिद्धौ चास्य सिद्धिरिति । ५ विकल्पवासनाप्रबोधकत्व। ६ सिद्ध हि विकल्पोत्पादकत्वे (पाटवे ) नीलादौ विकल्पवासनाप्रबोधकत्वसिद्धिस्ततस्तदुत्पादकत्वसिद्धिरिति । ७ सौगतैः। ८ बुद्धेः । ९ विकल्पवासनाप्रबोधविकल्पोत्पत्ति। १० अविद्यावासनातोऽन्यदिन्द्रियं वा शानान्तरं वा आत्मा वा। ११ वसः। अविद्यावासनाविनाशस्य । १२ विकल्पोत्पादकत्वम् । १३ निर्विकल्पक । १४ नीलादौ पाटवं क्षणक्षयादावपाटवमिति । १५ एकक्षणस्यैव पाटवभावाभाव । १६ किंच। १७ पाटवं। १८ निश्चीयेत। १९ योगिनः प्रत्यक्षादपि । २० विधूतकल्पनाजालं प्रत्यक्षं योगिनां मतम् । २१ ग्रन्थविरोधः । २२ ज्ञातुमिष्टत्वं । २३ अहिकण्टकादौ। २४ अभिलाषाद्विकल्पवासनाप्रबोधस्तस्माच्च विकल्पस्तस्साच्चाभिलषितत्वम् । २५ विकल्प । २६ विकल्प । २७ निर्विकल्पकप्रत्यक्षवादिमतप्रकारेणानिश्चयात्मकस्य विकल्पाजनकत्वे। २८ जैनानाम् । २९ सौगत । ३० वाक्य । ३१ जैन। ३२ निश्वास। ३३ बोधस्य निश्चयात्मकत्वात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org