________________
सू० १।१] इन्द्रियवृत्तिविचारः इत्यप्यवाच्यम् ; तन्नित्यत्वस्येश्वरनिराकरणप्रघट्टके निराकरिष्यमाणत्वात् । तन्न सन्निकर्षाप्यनुपचरितप्रमाणव्यपदेशभाक् ॥ छ ।
एतेनेन्द्रियवृत्तिः प्रमाणमित्यभिधानः साङ्ख्यः प्रत्याख्यातः। ज्ञानस्वभावमुख्यप्रमाणकरणत्वात् तत्राप्युपचारतः प्रमाणव्यवहाराभ्युपगमात् । न चेन्द्रियेभ्यो वृत्तिर्व्यतिरिक्ता, अव्यतिरिक्ता५ वा घटते। तेभ्यो हि यद्यव्यतिरिक्तासौ; तदा श्रोत्रादिमात्रमेवासी, तच सुप्ताद्यवस्थायामप्य॑स्तीति तदाप्यर्थपरिच्छित्तिप्रसक्तेः सुप्तादिव्यवहारोच्छेदः। अथ व्यतिरिक्तो; तदाप्यसौ किं तेषां धर्मः, अर्थान्तरंवा? प्रथमपक्षे वृत्तेःश्रोत्रादिभिः सह सम्बन्धो वक्तव्यःस हि तादात्म्यम् , सैमवायादिर्वा स्यात् ? यदि तादात्म्यम् ; १० तदा श्रोत्रादिमात्रमेवासाविति पूर्वोक्त एव दोषोऽनुषज्यते । अथ सैमवायः; तदास्य व्यापिनः सम्भवे व्यापिश्रोत्रादिसद्भावे च ।
"प्रतिनियतदेशावृत्तिरभिव्यज्येत्” [ ] इति प्लवते। अथ संयोगः, तदा ट्रॅव्यान्तरत्वप्रसक्तेर्न तद्धर्मों वृत्तिर्भवेत् । अर्थान्तरमसौ; तदा नासौ वृत्तिरर्थान्तरत्वात् पदार्थान्तरवत् । १५ अर्थान्तरत्वेपि प्रतिनियतविशेषसद्भावात्तेषामसौ वृत्तिः, नन्वसौ विशेषो यदि तेषां विषयप्राप्तिरूपः, तदेन्द्रियादिसन्निकर्ष एव नामान्तरेणोक्तः स्यात् । स चानन्तरमेव प्रतिव्यूढः। अथाऽर्थाकारपरिणतिः, न; अस्या बुद्धावेवाभ्युपगमात् । न च श्रोत्रा
१ प्रस्तावे। २ सन्निकर्षप्रमाणनिराकरणेन। ३ नेत्रादीनामुद्घाटनादिः । ४ अभिन्ना। ५ मूर्छागतप्रमत्तादि। ६ हेतोः । ७ जाग्रहशायां यथा । ८ प्रबुद्ध । ९ भिन्ना । १० स्वरूपं । ११ परैः । १२ आदिपदेन संयोगः । १३ वृत्तेः श्रोत्रादिभिः । १४ नित्य एको व्यापी समवायः। १५ इन्द्रियाणां व्यक्तीक्रियते। १६ भवन्मतं नश्यति । १७ द्वयोर्द्रव्ययोः संयोगः इतिहेतोः संयोगित्वात् । १८ इन्द्रियवृत्तेः । १९ परः । २० अर्थ । २१ परः। २२ वृत्तिः । २३ परिणतेः। २४ अर्थाकारपरिणतिः किम् । २५ साथैः । २६ किंच। ' 1 प्रस्तुतदिशा सन्निकर्षस्य खंडनंतत्त्वार्थश्लो. पृ० १६५ । प्रमाणप० पृ. ५२ । न्यायकु. चं० लि. परि० १। स्या. रत्नाकर पृ० ५४ । इत्यादिषु द्रष्टव्यं तुलनीयंच।
2 'इन्द्रियप्रणालिकया बाद्यवस्तूपरागात् सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रचानावृत्तिः प्रत्यक्षम्। योगद० व्यासमा० पृ० २७ ।
'अत्रेयं प्रक्रिया इन्द्रियप्रणालिकया अर्थसन्निकर्षेण लिंगशानादिना वा आदौ बुद्धेः मार्थाकारावृत्तिः जायते' । सांख्यप्र० मा० पृ० ४७ ।
विषयश्चित्तसंयोगाद् बुद्धीन्द्रियप्रणालिकात् । प्रत्यक्षं सांप्रतं ज्ञानं विशेषस्यावधारकम् ॥ २३ ॥ योगकारिका ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org