________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० दिस्वभावा तद्धर्मरूपा अर्थान्तरस्वभावा वा तत्परिणतिर्घटते; प्रतिपादितदोषानुषङ्गात् । न च परपक्षे परिणामः परिणामिनो भिन्नोऽभिन्नो वा घटते इत्यग्रे विचारयिष्यते ॥ छ॥
एतेन प्रभाकरोपि अर्थतथात्वप्रकाशको ज्ञातृव्यापारोऽज्ञानरू५पोऽपि प्रमाणम्' इति प्रतिपादयन् प्रतिव्यूढः प्रतिपत्तव्यः; सर्वत्राज्ञानस्योपचारादेव प्रसिद्धः । न च ज्ञातृव्यापारवरूपस्य किश्चित्प्रमाणं ग्राहकम्-तद्धि प्रत्यक्षम्, अनुमानम्, अन्यद्वा ? यदि प्रत्यक्षम् ; तत्किं स्वंसंवेदनम् , बाह्येन्द्रियजम्, मनःप्रभवं
वा ? न तावत्वसंवेदनम्। तस्याज्ञाने विरोधादनभ्युपगमाञ्च । १० नापि बाह्येन्द्रियजम् । इन्द्रियाणां स्वसम्बद्धेऽर्थे ज्ञानजनकत्वोप
गमात् । न च ज्ञातृव्यापारेण सह तेषां सम्बन्धः; प्रतिनियतरूपादिविषयत्वात् । नापि मनोजन्यम्; तथाप्रतीत्यभावादनभ्युपगमादतिप्रेसङ्गाच्च । नाप्यनुमानम् ; - "तिसम्बन्धस्यैकदेशदर्शनासनिकृष्टेऽर्थे बुद्धिः” [शाबर१५ भा० १११५] इत्येवंलक्षणत्वात्तस्य । सम्बन्धश्च कार्यकारण
भावादिनिराकरणेन नियमलक्षणोऽभ्युपगम्यते । तदुक्तम्
१ साङ्गय । २ इन्द्रियस्य । ३ इन्द्रियवृत्तिः प्रमाणमित्येतन्निराकरणेन। ४ चेतनासमवायाच्चेतन आत्मा न स्वरूपतोऽतस्तद्यापारोऽपि (अज्ञानरूपः)। ५ (निराकृतः)। ६ मते । ७ स्यात् । ८ अर्थापत्तिरूपम् । ९ अनुभूतिः प्रत्यक्षमिदमाश्रित्य । १० ज्ञातृव्यापारे अप्रवृत्तिः। ११ प्राभाकरैः। १२ ज्ञातृव्यापारस्याऽत्यन्तं परोक्षत्वाच्च । १३ अत्यन्तपरोक्षतया ज्ञातृव्यापारग्राहकत्वप्रकारेण मनोजन्यप्रत्यक्षस्य । १४ परैः । १५ धर्मादेरप्यतीन्द्रियस्य मनःप्रत्यक्षत्वं स्यात् परमाण्वादेरपि ग्राहकत्वं मनसः स्यात् । १६ नुः। १७ इन्द्रियैः। १८ तादात्म्यादि। १९ अविनाभाव । २० परेण । ___1 इन्द्रियवृत्ति-प्रमाणवादस्य खंडनं विविधरीया निम्नग्रंथेषु अवलोकनीयम् न्यायवा० ता० टी० पृ० २३३ । न्यायमं० पृ० २६ । तत्त्वार्थश्लो० पृ० १८७ । न्यायकु० चं० लि. परि० १ । स्या० रत्नाकर पृ० ७२ । 2 'तेन जन्मैव विषये बुद्धेापार इष्यते ।
तदेव च प्रमारूपं तद्वती करणं च धीः ॥ ६१॥
व्यापारो न यदा तेषां तदा नोत्पद्यते फलम् ॥६१॥ मीमां० श्लो० पृ० १५२। 'अथवा ज्ञानक्रियाद्वारको यः कर्तृभूतस्य आत्मनः कर्मभूतस्य च अर्थस्य परस्परं सम्बन्धो व्याप्तन्याप्यत्वलक्षणः स मानसप्रत्यक्षावगतो विज्ञानं कल्पयति' शास्त्रदी० पृ० २०२।
3 'शातसम्बन्धस्यैकदेशदर्शनात् एकदेशान्तरेऽसनिकृष्टे बुद्धिः' शाबर मा० पृ० ८ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org