SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [प्रथमपरि० म्भाव्यः; स्वविषयातिक्रमेणास्य योगजधर्मसहकारित्वेनाप्यनुग्रहायोगात्, अन्यथैकस्यैवेन्द्रियस्याशेषरसादिविषयेषु प्रवृत्तौ तदनुग्रहप्रसङ्ग स्यात् । अथैकमेवान्तःकरणं (योगजधर्मानु)गृहीतं युगपत्सूक्ष्माद्यशेषार्थविषयज्ञानजनकमिष्यते तन्न; अणुमनसोऽशे५षार्थैः संकृत्सम्बन्धाभावतस्तज्ज्ञानजनकत्वासम्भवात् , अन्यथा दीर्घशष्कुलीभक्षणादौ सकृच्चक्षुरादिभिंस्तत्सम्बन्धप्रसक्ते रूपादिज्ञानपञ्चकस्य सकृदुत्पत्तिप्रसङ्गात् "युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" न्यायसू० १।९।१६] इति विरुध्येत । क्रमशोऽन्यत्र तदर्शनादत्रापि क्रमकल्पनायां योगिनः १० सर्वार्थेषु सम्बन्धस्य क्रमकल्पनास्तु तथादर्शनाविशेषात् । तदनु ग्रहसामर्थ्याद् दृष्टातिक्रमेष्टौ च आत्मैव समाधिविशेषोत्थधर्ममाहात्म्यादन्तःकरण निरपेक्षोऽशेषार्थग्राहकोऽस्तु किमदृष्टपरिकल्पनया ? तन्नाणुमनसोऽशेषार्थैः साक्षात्सकृत्सम्बन्धो घटते । अथ पैरम्परया, तथा हि-मनो महेश्वरेण सम्बद्धं तेन च १५ घटादयोऽर्थास्तेषु रूपादय इति, अत्राप्यशेषार्थज्ञानासम्भवः । सम्बन्धसम्बन्धोऽपि हि तस्याशेषार्थैर्वर्तमानैरेव नानुत्पन्नविनष्टैः। तत्काँले तैरपि सह सोऽस्तीति चेन्न; तदा वर्तमानार्थसम्बन्धसम्बन्धस्यासम्भवात्। ततोऽयमन्य एवेति चेत्, तर्हि तजनितज्ञा नमपि अनुत्पन्नविनष्टार्थकालीनसम्बन्धसम्बन्धजनितज्ञानादन्य२० दिति एकज्ञानेनाशेषार्थज्ञत्वासम्भवः । बहुभिरेव ज्ञानस्तदिति चेत् , तेषां किं क्रमेण भावः, अक्रमेण वा? क्रममावे; नानन्तेनापि कालेनानन्तता संसारस्य पँतीयेत-य एव हि सम्बन्धसम्बन्धवशाज् ज्ञानजनकोऽर्थः स एव तजनितज्ञानेन गृह्यते नान्य इति । अक्रममावस्तु नोपपद्यते विनष्टानुत्पन्नार्थज्ञानानां वर्तमा२५ नार्थज्ञानकालेऽसम्भवात् । न हि कारणाभावे कार्य नामातिप्र सङ्गात् । न च बौद्धानामिव यौगानां विनष्टानुत्पन्नस्य कारणत्वं सिद्धान्तविरोधात् । नित्यत्वादीश्वरज्ञानस्योक्तदोषानवकाश १ इन्द्रियस्य । २ विषयान्तरेऽपि सहकारित्वरूपानुग्रहश्चेत् । ३ योगजधर्मस्य । ४ परः। ५ परैः। ६ युगपत् । ७ परमते । ८ तदर्थैः सकृतसम्बन्धश्चेन्मनसः । ९ मनसः । १. परग्रन्थः ॥ ११ परः। १२ घटादौ। १३ मनःसम्बन्धः । १४ सर्वशस्य । १५ मनसः। १६ क्रमेण मनःसम्बन्ध । १७ परः । १८ क्रमेण मनःसम्बन्धस्य । १९ युगपदशेषार्थग्रहणमितीष्टौ। २० परः। २१ अशेषार्थैरणुमनसो हि सम्बन्धः । २२ सर्वगतत्वात् (महेश्वरस्य)। २३ सम्बन्धसम्बन्धे । २४ मनसः । २५ तेषामसत्त्वात् । २६ परः। २७ अनुत्पन्न विनष्टार्थकाले। २८ अनुत्पन्नविन. टासम्बन्धसम्बन्धात् परः। २९ नृणाम् । ३० ईश्वरेण । ३१ युगपत् । ३२ परः। ३३ असर्वशत्वज्ञानासम्भव । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy