________________
सू० १११ ]
कारकसाकल्यवादः
प्रतिपाद्याशयवशवर्तित्वात् । 'अकथितम्' [पाणिनि सू० ११४/५१] इत्यनेन कर्मसंज्ञायां सत्यांकर्मणीं ।
नैनु चेष्टदेवतानमस्कारकरणमन्तरेणैवोक्तप्रकाराऽऽदिलोकाभिधानमाचार्यस्याऽयुक्तम् | अविघ्नेन शास्त्रपरिसमाप्यादिकं हि फलमुद्दिश्येष्टदेवतानमस्कारं कुर्वाणाः शास्त्रकृतः शास्त्रादौ प्रती- ५ यन्ते; इत्यप्यसमीक्षिताभिधानम् : वाङ्नमस्काराऽकरणेपि कायमनोनमस्कारकरणात् । त्रिविधो हि नमस्कारो-मनोवाक्कायकारणभेदात् । दृश्यते चातिलघूपायेन विनेयव्युत्पादनमनसां धर्मकीर्त्यादीनामप्येवंविधा प्रवृत्तिः वाङ्गमस्कारकरणमन्तरेणैव "सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः" [ न्यायवि० ११] इत्यादि- २० वाक्योपन्यासात् । यद्वा वाङ्मस्कारोऽप्यनेनैवादिश्लोकेन कृतो
ग्रन्थकृता; तथाहि मा अन्तरङ्गबहिरङ्गानन्तज्ञानप्रातिहार्या
दिश्रीः, अण्यते शब्द्यते येनार्थोऽसावाणः शब्दः, मा चाणश्च माणौ, प्रकृष्टौ महेश्वराद्यसम्भविनौ माणौ यस्याऽसौ प्रमाणो भगवान् सर्वशो दृष्टेष्टाऽविरुद्धवाक् च, तस्मादुक्तप्रकारार्थसंसिद्धिर्भवति । १५ तदभासात्तु महेश्वरादेर्विपर्ययस्तत्संसिद्ध्यभावः । इति वक्ष्ये तयोलक्ष्म 'सामग्रीविशेषविश्लेषिताऽखिलावरणमतीन्द्रियम्' इत्याद्यसाधारणस्वरूपं प्रमाणस्य । किंविशिष्टम् ? सिद्धं वक्ष्यमाणप्रमाणप्रसिद्धम्, तद्विपरीतं तु तदाभासस्य तच्चाऽल्पं संक्षिप्तं यथा भवति तथा, लघीयसः प्रति वक्ष्ये तयोर्लक्ष्मेति । शास्त्रा- २० रम्भे चाऽपरिमितगुणोदधेर्भगवतो गुणलव व्यावर्णनमेव वास्तुतिरित्यलमतिप्रसङ्गेन ॥ छ ॥
प्रमाणविशेषलक्षणोपलक्षणाकाङ्क्षायास्तत्सामान्यलक्षणोपलक्षणपूर्वकत्वात् प्रमाणस्वरूपविप्रतिपत्तिनिराकरणद्वारेणाऽबाधतत्सामान्यलक्षणोपलक्षणायेदमभिधीयते -
स्वापूर्वार्थ व्यवसायात्मकं ज्ञानं प्रमाणम् ॥ १ ॥ प्रमाणत्वान्यथानुपपत्तेरित्ययमंत्र हेतुर्दृष्टव्यः । विशेषणं हि व्यवच्छेदफलं भवति । तत्र प्रमाणस्य ज्ञानमिति विशेषणेन 'अव्यभिचारोदिविशेषणविशिष्टार्थोपलब्धिजनकं कारकसाकल्यं साधक
१ शिष्य । २ सूत्रेण । ३ इप् द्वितीया । ४ परः । ५ उपायेन शब्देनेत्यर्थः । ६ बौद्धाचार्याणाम् । ७ अथवा । ८ ' कश्चित्पुरुष' इत्यादि । ९ वचसा नमस्कारकरणं तु तस्य संस्तवनम् । १० पूर्वपक्षेण । ११ परिज्ञान । १२ साध्ये । १३ लक्षणं व्यावृत्तिफलं तदाभासात्परिहारफलमित्यर्थः । १४ अविपर्ययः व्यभिचारो नाम अतिव्याप्तिः । १५ अव्यात्यतिव्यात्यसंभवादिरहित विशेषणसंभव संशयादिव्यभिचारः । १६ प्रतीति । १७ जरनैयायिका आत्माकाशादीनां साकल्यं प्रमाणमित्याहुः ।
For Personal and Private Use Only
Jain Educationa International
२५
www.jainelibrary.org