________________
प्रमेयकमलमार्त्तण्डे
[ प्रथमपरि०
"
तमत्वात् प्रमाणम्' इति प्रत्याख्यातम् ; तस्याऽज्ञानरूपस्य प्रमेयार्थवत् स्वपरपरिच्छित्तौ साधकतमत्वाभावतः प्रमाणत्वायोगात् तत्परिच्छित्तौ साधैकतमत्वस्याऽज्ञानविरोधिना ज्ञानेन व्याप्तत्वात् । छिदौ परश्वादिना साधकतमेन व्यभिचार इत्ययुक्तम् ; ५ तत्परिच्छित्तावितिविशेषणात् न खलु सर्वत्र साधकतमत्वं ज्ञानेन व्याप्तं-परश्वादेरपि ज्ञानरूपताप्रसङ्गात् । अज्ञानरूपस्यापि प्रदीपादेः खपरपरिच्छित्तौ साधकतमत्वोपलम्भात्तेन तस्याऽव्याप्तिरित्यप्ययुक्तम् ; तस्योपचारात्तत्र साधकतमंत्वव्यवहारात् । साकल्यस्याप्युपचारेण साधकतमत्वोपगमे न किंचिदनिष्टम्१० मुख्यरूपतया हि स्वपरपरिच्छित्तौ साधकतमस्य ज्ञानस्योत्पादकत्वात् तस्यापि साधकतमत्वम्; तस्माच्च प्रमाणं- कारणे कार्योपचारात् अन्नं वै प्राणा इत्यादिवत् । प्रदीपेन मया चक्षुषाऽवगतं धूमेन प्रतिपन्नमिति लोकव्यवहारोऽप्युपचारतः यथा ममाऽयं पुरुषश्चक्षुरिति तेषां प्रमितिं प्रति बोधेन व्यवधानात्, १५ तस्य त्वपरेणीव्यवधानात्तन्मुख्यम् । न च व्यपदेशमात्रात्पारमार्थिकवस्तुव्यवस्था 'नॅइलोदकं पादरोगः' इत्यादिवत् । तैंतो यद्बोधrsबोधरूपस्य प्रमाणत्वाभिधानकम् -
3£
'लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्' [ ] इति तत्प्रत्याख्यातम् ; ज्ञानस्यैवाऽनुपचरितप्रमाणव्यपदेशार्हत्वात् । २० तथाहि - यद्यत्राऽपरेण व्यवहितं न तत्तत्र मुख्यरूपतया साधक
५ अज्ञान.
१ जानन्तं प्रति निरस्तम् । २ घटवत् । ३ व्याध्यस्य । ४ परः । रूपेण । ६ कारणत्वेनाभिप्रेते वस्तुनि । ७ अन्यथा । ८ परः । ९ यद्यदशान• विरोधिज्ञानेन व्याप्तं तत्तत्स्वपरपरिच्छित्तौ साधकतममतोऽशानरूपस्य स्वपरपरिच्छित्तौ साधकतमस्य तेन ज्ञानेनाव्याप्तिः । १० न परमार्थतः । ११ प्रदीपस्य स्वपरप्रकाशकरूपेण साधकतमत्वं न तु स्वपरपरिच्छित्त्यात्मकत्वेनेति भावः । १२ परैः । १३ जैनानाम् । १४ ज्ञानजनकत्वेन । १५ अज्ञानरूपत्वादित्यस्य हेतोरनैकान्तिकत्वे । २६ प्रदीपादेः प्रामाण्यम् । १७ वस्तुरूपं वह्नि । १८ ज्ञानधर्मसाधकतमस्य । १९ अग्निस्वरूपम् । २० साधकतमज्ञानहेतुत्वेन । २१ साधकतमत्वेन । २२ साधकतमशानस्य हेतुत्वेन । २३ प्रमितिक्रियां प्रति । २४ परिच्छिन्ति प्रति प्रदीपादे: साधकतमत्वं न मुख्यम् । २५ प्रदीपा देसाधकतमत्वमिति व्यपदेशमात्रात् । २६ प्रदीपादेः प्रामाण्यम् । २७ 'शालं हरितं प्रोक्तं । नडुलं नडसंयुतम् ' ( क) तृणसंयुतमुदकं नलं कथ्यते । २८ पादरोगकारणतया व्यपदिश्यमानं नडुलोदकं यथा पादरोगत्वेन न पारमार्थिकं तथा प्रकृतमपि । २९ ज्ञानस्यैव साधकतमत्वं यतः । ३० नैयायिकस्य वैशेषिकस्य च । ३१ शासनादिलो के पत्रादि, तत्प्रमाणम् । ३२ पुरुषाः प्रमाणम् । ३३ अनुभवः प्रमाणम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org