________________
प्रमेयकमलमार्त्तण्डे
[ प्रथमपरि०
'वक्ष्ये' व्युत्पादनार्हत्वात्तल्लक्षणस्य यथावत्तत्स्वरूपं प्रस्पष्टं कथयिष्ये । अनेन ग्रन्थकारस्य तद्व्युत्पादने स्वातंत्र्यव्यापारोऽवसीयते - निखिललक्ष्यलक्षणभावावबोधोऽन्योपकारनियत चेतोवृत्तित्वात्तस्य ।
"
५ नैनु चेदं वक्ष्यमाणं प्रमाणेतरलक्षणं पूर्वशास्त्राप्रसिद्धम्, तद्विपरीतं वा? यदि पूर्वशास्त्राऽप्रसिद्धम् तर्हि तद्व्युत्पादनप्रयासो नारम्भ- ' णीयः- स्वरुचिविरचितत्वेन सतामनादरणीयत्वात् तत्प्रसिद्धं तु नितरामेतन्न व्युत्पादनीयं- पिष्टपेषणप्रसंङ्गादित्याह - 'सिद्धमल्पम् ' । प्रथम विशेषणेन व्युत्पादनवत्तलक्षणप्रणयने स्वातन्त्र्यं परिहृतम् । १० तदेव आकलङ्कमिदं पूर्वशास्त्रपरम्परा प्रमाणप्रसिद्धं लघूपायेन प्रतिपाद्य प्रज्ञापरिपाकार्थं व्युत्पाद्यते न स्वरुचिविरचितं - नापि - प्रमाणानुपपन्नं परोपकारनियतचेतसो ग्रन्थकृतो विनेयविसंवादेने प्रयोजनाभावात् । तथाभूतं हि वदन् विसंवादकैः स्यात् । 'अल्पम्' इति विशेषणेन यदन्यत्रै अकलङ्क देवैर्विस्तरेणोक्तं प्रमाणेतरलक्षणं१५ तदेवात्रं संक्षेपेण विनेयव्युत्पादनार्थमभिधीयत इति पुनरुक्तत्वनिरासः । विस्तरेणान्यत्रभिहितस्यात्र संक्षेपाभिधाने विस्तररुचिविनेयविदुषां नितरामनादरणीयत्वम् । को हि नाम विशेषव्युत्पत्यर्थी प्रेक्षावांस्तत्साधनाऽन्यसद्भावे सत्यन्यत्राऽर्तत्साधने कृतादरो भवेदित्याह - 'लघीयसः' । अतिशयेन लघवो हि लघीयांसः २० संक्षेपरुचय इत्यर्थः । कालशरीरपरिमाणकृतं तु लाघवं नेह गृह्यतेतस्य व्युत्पाद्यत्वव्यभिचारात् क्वचित्तथाविधे व्युत्पादकस्या - प्युपलम्भात् । तस्मादर्भिप्रायकृतमिह लाघवं गृह्यते । येषां संक्षेपेण व्युत्पत्त्यभिप्रायो विनेयानां तान् प्रतीदमभिधीयते प्रतिपदिकस्य
"
१ ब्रूञ् द्विकर्मकः । २ व्युत्पत्तिकरणार्हत्वात् । ३ भा कृत्त्वा ( तृतीयान्तं तेन कृत्त्वेत्यर्थ: ) । ४ परः । ५ पुनरुक्तत्वप्रसङ्गात् । ६ ईप् यथा - (व्युत्पादने यथा ) | ७ कथने । ८ प्रमाणतदाभासलक्षणम् अकलङ्केन प्रोक्तमाकलङ्कम् । कलङ्केन दोषेण रहितं वा । ९ पूर्वशास्त्रपरम्परा च प्रमाणं चेति पूर्वशास्त्र परम्पराप्रमाणे ताभ्यामित्यर्थः । १० परम्पराप्रमाणप्रसिद्धमिति वा पाठ: । ११ संक्षिप्तशब्दरूपेण । १२ प्रतारणे । १३ प्रतारकः । १४ प्रमाण संग्रहादौ । १५ परीक्षामुखे । १६ प्रमाणसंग्रहादौ । १७ प्रमाणसंग्रहाहिसद्भावे । १८ परीक्षामुखे । १९ विशेषव्युत्पत्त्य साधने । २० न कोपि । २१ तर्हि कान् प्रतीत्याशङ्कायामाह । २२ विमतो व्युत्पाद्यः कालकृतलाघवादित्युक्ते गर्भाऽष्टवर्षादिजातज्ञानसम्पन्नेन व्यभिचारात् । वीतः प्रतिपाद्यः कायकृतलाघवादित्युक्ते अधीतशास्त्रेण कुब्जादिनाऽनेकान्तात् । तयोर्व्युत्पादकत्वादिति भावः । २३ बुद्धि । २४ गुरोः ।
I
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org