________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० त्यजति न विदधानः कार्यमुद्विज्य धीमान् __ खलजनपरिवृत्तेः स्पर्धते किन्तु तेन । किमु न वितनुतेऽर्कः पद्मबोधं प्रबुद्ध__ स्तदपहृतिविधायी शीतरश्मिर्यदीह ॥ ४॥ अजडमदोषं दृष्ट्वा मित्रं सुश्रीकमुद्यतमतुष्यत् । विपरीतबन्धुसङ्गतिमुंद्रिति हि कुवलयं किं न ॥५॥ श्रीमदकलङ्कार्थोऽव्युत्पन्नप्रज्ञैरवगन्तुं न शक्यत इति तद्व्युत्पादनाय करतलामलंकवत् तदर्थमुद्धृत्य प्रतिपादयितुकामस्त
त्परिज्ञानानुग्रहेच्छाप्रेरितस्तदर्थप्रतिपादनप्रेवणं प्रकरणमिदमा१० चार्यःप्राह । तत्र प्रकरणस्य सम्बन्धाभिधेयरहितत्वाशङ्कापनोदार्थ
तदभिधेयस्य चाऽप्रयोजनवत्त्वपरिहारानभिमतप्रयोजनववव्युदासाशक्यानुष्ठानत्वनिराकरणदक्षमक्षुण्णसकलशास्त्रार्थसङ्ग्रहसमर्थ 'प्रमाण' इत्यादिश्लोकमाह
प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः। १५ इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः॥१॥
सम्बन्धाभिधेयशक्यानुष्ठानेष्टप्रयोजनवन्ति हि शास्त्राणि प्रेक्षावद्भिराद्रियन्ते नेतराणि-सम्बन्धाभिधेयरहितस्योन्मत्तादिवाक्यवत्, तद्वतोऽप्यप्रयोजनवतः कॉकदन्तपरीक्षावत्, अनभिमत
प्रयोजनवतो वा मातृविवाहोपदेशवत्; अशक्यानुष्ठानस्य वा २० सर्वज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवत् तैरनादरणीयत्वात् । तदुक्तम्
१ यद्यपि सतः प्रक्रमः प्रारभ्यते-तथापि दुष्टा दुष्टत्वं न मुञ्चेयुस्तत्तस्यायं प्रक्रमो नारब्धव्य इत्युक्ते त्यजतीत्याह। २ उद्वेगं प्राप्य । ३ व्यापारात्। ४ मित्रं सूर्य, पक्षे प्रभाचन्द्रम् । ५ तुष्टिमगच्छत् । ६ चन्द्र-1 ७ सूचयति । ८ कुमुदं, पक्षे भूमण्डलं (मिथ्यादृष्टिसमूहम् )। ९ मणिवत्। १० संगृह्य । ११ तयोरकलङ्कार्थाव्युत्पन्नयोः यौ परिज्ञानानुग्रहौ तयोर्या इच्छा तया प्रेरितः। १२ दक्षम्। १३ "शास्त्रै. कदेशसम्बन्धं शास्त्रकार्यान्तरस्थितम् । आहुः प्रकरणं नाम शास्त्रभेदं विपश्चितः" । शास्त्रैकदेशेत्यादिविशेषणात् साकल्येन प्रतिपादकभाष्यादेः प्रकरणत्वं परास्तम् । शास्त्रकार्यान्तरं तु वैशा लघुत्वं च । तच्चोपोद्घातप्रतिपादनभेदाद्विविधम् । तत्र प्रतिपाद्यमर्थ बुद्धौ संगृह्य ( आलोच्य) प्रागेव तदर्थमर्थान्तरवर्णनमुपोद्घातः । प्रतिपाद्यमर्थ बहिरेव परिशाय पश्चात्तत्सिद्धये तद्धतुवर्णनं प्रतिपादनम् । सकलप्रतिपादकशास्त्रकार्याद् (प्रकृतशास्त्रकार्याद ) अन्यत्कार्य कार्यान्तरम् । १४ शास्त्रावतारे सति । १५ प्रस्तुतस्यार्थस्य अनुरोधेनोत्तरोत्तरस्य विधानं सम्बन्धः । १६ पूर्वोक्तलक्षणः सम्बन्धः। १७ यस्मात् । २८ "काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् । गर्दमे कति रोमाणीत्येवं मूर्खविचारणा"। १९ शाताभिधेयमेवेत्यवधारणं समर्थयमानः प्राह ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org