________________
प्र० श्लो०] प्रतिज्ञाश्लोकः । "सिद्धार्थ सिद्धसम्बन्धं श्रोता श्रोतुं प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोर्जेनः ॥१॥
[मीमांसाश्लो० प्रतिज्ञासू० श्लो० १७] सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्।। यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यताम् ॥२॥
[मीमांसाश्लो० प्रतिज्ञासू० श्लो० १२] अॅनिर्दिष्टफलं सर्व न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन वाच्यमग्रे प्रयोजनम् ॥ ३ ॥
१०
शास्त्रस्य तु फले ज्ञाते तत्प्राप्त्याशावशीकृताः। प्रेक्षावन्तः प्रवर्त्तन्ते तेनं वाच्यं प्रयोजनम् ॥ ४॥
यावत् प्रयोजनेनास्यसम्बन्धो नाभिधीयते । असम्बद्धप्रलापित्वाद्भवेत्तावदसैङ्गतिः ॥५॥
[मीमांसाश्लो० प्रतिज्ञासू० श्लो० २०] १५ तस्माद् व्याख्याङ्गमिच्छद्भिः सहेतुः सप्रयोजनः। शास्त्रावतारसम्बन्धोवाच्यो नान्योऽस्ति निष्फलः॥६॥” इति।
[मीमांसाश्लो० प्रतिज्ञासू० श्लो० २५] तंत्रास्य प्रकरणस्य प्रमाणतदाभासयोर्लक्षणमभिधेयम् । अनेन च सहास्य प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः। शक्यानु-२० ष्ठानेष्टप्रयोजनं तु साक्षात्तल्लक्षणव्युत्पत्तिरेव-इति वक्ष्ये तयोलक्ष्म' इत्यनेनाऽभिधीयते । 'प्रमाणादर्थसंसिद्धिः' इत्यादिकं तु परम्परयेति समुदायाँर्थः। अथेदानी व्युत्पत्तिद्वारेणाऽवयवार्थोऽभिधीयते । अत्र प्रमाणशब्दः कर्तृकरणभावसाधनः-द्रव्यपर्याययोर्भेदाऽमेदात्मकत्वात् स्वातन्यसाधकतमत्वादिविवक्षापेक्षया २५
१ यदाद्रियते । २ अर्थशब्देनाभिधेयं प्रयोजनं च। ३ शास्त्रम् ( इति शेषः) । ४ प्रयुज्यते प्रतिपाद्यते इति प्रयोजनमभिधेयं प्रयुक्तिः, प्रयोजनं फलं ताभ्यां सह वर्तते । ५ शातफलमेवेति समर्थयते । ६ आदौ। ७ फलम् । ८ निरूपितेपि फले प्रवर्तनं न भविष्यतीति शङ्कायामाह। ९ कारणेन । १० सिद्धसम्बन्धमेव पदं समर्थयमानोऽग्रेतनश्लोके ब्रूते। ११ अभिधेयेन। १२ परस्परसम्बन्धरहितं शास्त्रम् । १३ सम्बन्धादित्रयम् । १४ साभिधेयः। १५ सफलः। १६ साभिधेयः सप्रयोजनश्च सम्बन्धो वाच्यः। १७ सम्बन्धादित्रयरहितः। १८ सम्बन्धादित्रये वक्तव्ये भादरणीयत्वे सति शास्त्रप्रारम्भकाले। १९ प्रमाणेतरलक्षणस्य व्युत्पत्तिमन्तरेणापवर्गादेः प्राप्तिन स्यादत एव साक्षाश्वम् । २० श्लोकस्य । २१ श्लोके । २२ आत्मद्रव्यम् । २३ शानपर्यायः। २४ साक्षाद् ब्यापारे । २५ भाव ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org