SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Post 2AGES श्रीमाणिक्यनन्द्याचार्यविरचित-परीक्षामुखसूत्रस्य व्याख्यारूपः श्रीप्रभाचन्द्राचार्यविरचितः प्रमेयकमलमार्तण्डः। श्रीस्याद्वादविद्यायै नमः। सिद्धर्धाम महारिमोहहननं कीर्तः परं मन्दिरम् , मिथ्यात्वप्रतिपक्षमक्षयसुखं संशीतिविध्वंसनम् । सर्वप्राणिहितं प्रभेन्दुभवनं सिद्धं प्रमालक्षणम् , सन्तश्चेतसि चिन्तयन्तु सुधियः श्रीवर्द्धमानं जिनमें ॥१॥५ शास्त्रं करोमि वरमल्पतरावबोधो __ माणिक्यनन्दिपदपङ्कजसत्प्रसादाँत् । अर्थ न किं स्फुटयति प्रकृतं लघीयाँ.ल्लोकस्य भानुकरविस्फुरिताद्गवाक्षः ॥२॥ ये नूनं प्रथयन्ति नोऽसमगुणा मोहादवज्ञां जनाः, ते तिष्ठन्तु न तान्प्रति प्रयतितः प्रारभ्यते प्रक्रमः। सन्तः सन्ति गुणानुरागमनसो ये धीधनास्तान्प्रति, प्रायः शास्त्रकृतो यदत्र हृदये वृत्तं तदाख्यायते ॥३॥ १ भव्यसिद्धि प्रति कारणं भवति भगवानत आश्रयत्वेनाभिधीयते । २ वाण्याः । ३ आश्रयम् । ४ शास्त्रादौ देवशास्त्रगुरवो नमस्करणीया अत एव देवनमस्कृती श्रीवर्द्धमानं विशेष्यं कृत्वा हेतुहेतुमद्भावतयाऽन्वयानुसारेणान्यानि विशेषणानि योजयेत् , ततः शास्त्रनमस्कृती प्रमालक्षणं विशेष्यं कृत्वा, गुरुनमस्कृती जिनं विशेष्यं कृत्वा, चान्यानि विशेषणानि योजयेत् । ५ इष्टदेवतामभिष्टुत्य शास्त्रं करोमीति प्रतिशां कुर्वन्ति सूरयः। ६ अपि । ७ माहात्म्यात् । ८ दृष्टिगोचरं । ९ पश्यतः (इति शेषः)। १० यमप्ययं प्रक्रमो भवद्भिः क्रियते, तथापि भवत्कृते प्रक्रने केचन जना अवज्ञां विदधानाः सन्तीत्याह । ११ वक्रगुणाः पुरुषाः । १२ औणादिकोऽयमिकारान्तस्ततस्तस् । प्रयत्नादित्यर्थः । १३ ययययं प्रक्रमः प्रारभ्यते-तथापि स्वरुचिविरचितत्वात्सतामत्रादरणीयत्वं न स्यादित्याह प्राय इति बाहुल्येनेत्यर्थः। १४ माणिक्यनन्दिभट्टारकस्य । १५ परीक्षामुखालकारे। १६ प्रवृत्तं । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy