________________
७०
त्रिषष्टिशलाकापुरुषचरित्रम्
।।श्रीसुपार्श्वचरित्रम्।।।
स्वःसम्पदां प्रतिभुवः सुकृताङ्कुराणां, बीजानि धार्मिकवणिग्जनमूलनीव्यः । अग्रेसराः शिवपुरी प्रतिगन्तुमिच्छोः,
सन्तु श्रिये तव सुपार्श्वपदोः प्रणामाः।।१२० ।। (वसन्ततिलका) धातकीखण्डद्वीपे प्राग्विदेहे रमणीयविजये क्षेमायां पुर्यां नन्दिषेणो राजा राज्यं पालयति । स चैकदा साधूपाश्रयान्निशायां प्रतिक्रम्य चलितः । स्वावासमागच्छंश्च युवतिभिः सममश्लीलानि भाषमाणं वृद्धमेकं पुमांसं शुश्राव । ततोऽनुचितमिति कृत्वा प्रवृत्तश्चिन्तयितुम्
गात्रं पात्रं वलीनां, शिरसि शिरसिजाः, काशकसभासः, कर्णावभ्यर्णभाजा-मपि न कलयतो, जल्पमल्पस्वरोक्तम्। कम्प्रौ पाणी न वाणी, स्फुरति पटुरुरो, भङ्गुरं श्वास आस्ये, दास्ये वर्तन्त एते, तदपि मृगदृशां, यातयामा: किमन्धाः?।।१२१।।
(स्रग्धरा) इत्यादिभावनया प्रवर्धमानवैराग्यः सहसैवोत्सृज्य राज्यं प्रव्रजितः । तपश्चोग्रतरं तप्यमानोऽर्हद्भक्तव्यादिस्थानकैस्तीर्थकरनामकर्मोपाय॑ समाधिना च मृत्वा षष्ठे ग्रैवेयके देवो जातः।।
जम्बूद्वीपे भरतक्षेत्रे वाराणस्यां प्रतिष्ठो राजा। पृथ्वीनाम्ना पट्टराज्ञी । भाद्रपदकृष्णाष्टम्यामनुराधायां षष्ठद्मवेयकानन्दिषेणनृपजीवश्युत्वा चतुर्दशस्वप्नसूचित तीर्थकरजन्मा पृथ्व्याः कुक्षाववतीर्णः। ज्येष्ठशुक्लद्वादश्यां विशाखायां स्वर्णवर्णः स्वस्तिकाङ्कः कार्मुकशतद्वयोञ्चो विंशतिपूर्वलक्षायुष्को ज्ञानत्रयधरः सर्वलक्षण
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org