SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ६९ त्रिषष्टिशलाकापुरुषचरित्रम् वपुरनाधि समाधिरतिर्नृणां, शुभतरोः प्रथमेऽङ्करका इमे ।।११८ ।। (द्रुतविलम्बितम्) ___इत्याद्याकर्ण्य प्रतिबुद्धाः प्राणिनो बहवः प्रव्रजिताः सम्यक्त्वादिकं च गृहीतवन्तः । स्थापिताः सुव्रतादयः सप्तोत्तरं शतं गणभृतः । प्रभुतीर्थे च कुसुमो यक्षः । स च श्यामो मृगवाहनोऽभयदफलभृद्दक्षिणद्विभुजो नकुलाक्षसूत्रिवामदोर्द्वयः । अच्युता शासनदेवी । सा च श्यामा नृस्था वरदबाणभृद्दक्षिणद्विभुजाऽभयदधनुष्मद्वामभुजयुगा।। ____ प्रभोश्च सर्वपरिवारे त्रिलक्षी त्रिंशत्सहस्री च साधूनाम् । सविंशतिसहस्री चतुर्लक्षी साध्वीनाम् । त्रयोविंशतिशती चतुर्दशपूर्विणाम् । दशसहस्यवधिज्ञानिनाम्। दशसहस्री त्रिशती च मनोज्ञानिनाम् । द्वादशसहस्री केवलिनाम् । साष्टोत्तरशता षोडशसहस्री वैक्रियलब्धिमताम् । सषट्शती नवसहस्री वादिनाम् । ससप्ततिसहस्री द्विलक्षी श्रावकाणाम् । सपञ्चसहस्री पञ्चलक्षी च श्राविकाणाम्।। षण्मास्या षोडशाब्द्या चोनं पूर्वलक्षं केवलिपर्यायं विहत्याऽऽसन्नमोक्षः प्रभुः साधूनां त्र्यधिकैरष्टभिः शतैः समं सम्मेताद्रौ गत्वा मासमनशन्यूर्ध्वस्थ एव मार्गशीर्ष कृष्णैकादश्यां चित्रायां क्षीणाशेषकर्मा शर्माद्वैतं पदं प्राप्तः। कौमारे सा सप्तपूर्वलक्षी। राज्ये पूर्वलक्षाणां सार्बेकविंशतिः षोडशपूर्वाङ्गाणि च। व्रते पूर्वलक्षमेकं षोडश पूर्वाङ्गहीनम् । एवं त्रिंशत्पूर्वलक्षाणि प्रभोः सर्वायुः । सुमतिस्वामिमोक्षात् सागरोपमकोटीनां नवतिसहस्रयां गतायां श्रीपद्मप्रभमोक्षः । मोक्षमहिमा च प्राग्वत्।। सद्वृत्तवित्तमुक्ता-भिरामगुणधामनायकपवित्रम् । पद्मप्रभस्य चरितं हार इवास्तां सतां कण्ठे ।।११९।। (आर्या) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy