________________
त्रिषष्टिशलाकापुरुषचरित्रम्
७१
सम्पूर्णस्तीर्थकरः पुत्रो जातः । जन्मोत्सवश्च प्राग्वत् । कारितः पुरे पित्रा महानुत्सवः । गर्भस्थ प्रभौ विशेषतो जननी शोभनपार्श्वा जाता । ततः कृतं प्रभोः सुपार्श्व इति नाम । तथा गर्भस्थ एव प्रभो जनन्याः स्वप्न एकफणे पञ्चफणे नवफणे च नागतल्पे स्वं सुप्तं दृष्टम् । ततः प्रभोरप्युपर्येतत्सङ्ख्याः फणाः क्रियन्ते । प्राप्तयौवनश्चाऽनिच्छन्नपि कारितः पित्रा राजकन्यायाः पाणिग्रहोत्सवम् । कौमारे च पञ्चसु पूर्वलक्षेषु गतेषु पित्रा निवेशितो राज्ये । स्वयं च स्वार्थसाधको जातः पिता ।।
I
राज्ये च विंशतिपूर्वाङ्गसहितां चतुर्दशपूर्वलक्षीमतिवाह्य सांवत्सरिकं दानं दत्त्वा कृतषष्ठः शक्रादिकृतनिष्क्रमणोत्सवः सहस्राम्रवणे गत्वा पञ्चभिर्मुष्टिभिः शिरसिजानुद्धृत्य शक्रन्यस्तदेवदूष्यधारी प्रभुर्नृपसहस्रेण समं ज्येष्ठशुक्लत्रयोदश्यामनुराधायां पश्चिमेऽह्नि वयसि च सर्वं सावद्यं मया निषिद्धमिति चारित्रं प्रतिपन्नवान्। उत्पन्नमन:पर्ययज्ञानः प्रभुर्द्वितीयदिने महेन्द्रनृपगृहे परमान्नेन पारणं चकार । पञ्च दिव्यानि तत्राविर्भूतानि । नवमासानन्यत्र विहृत्य पुनः सहस्राम्रवणमागतस्य शिरीषतरुतलस्थस्य षष्ठेन तपसा फाल्गुनकृष्णषष्ठ्यां विशाखायां प्रभोः पूर्वाह्णे केवलज्ञानमुत्पन्नम् । समवसरणादिकं च प्राग्वत्, सम्प्राप्ताः शक्रदयः । कृता प्रभुणा देशना
जीवानां नयनादिकस्य करण- ग्रामस्य सांसारिके, यद्रूपप्रमुखे सुखं तदपरं, नाकर्ण्यते किञ्चन ।
एच क्षमते न कामपि पुनश्चर्चा ततोऽन्यद् यदि,
स्वादिष्ठं सुखमस्ति तद्भजत त नो चेत् तपस्तप्यताम् ।। १२२ ।। (शार्दूलविक्रीडितम्)
इत्याकर्ण्य प्रतिबुद्धाः प्राज्याः प्राणिनः प्रवव्रजुर्जगृहुश्च सम्यक्त्वादिकम् । पञ्चनवतिश्च विदर्भाद्याः स्थापिता गणभृतः । प्रभुतीर्थे च मातङ्गो यक्षः । स च श्यामो गजस्थो बिल्वपाशिदक्षिणदोर्द्वयोः नकुलाङ्कुशिवामभुजयुगः । शान्तादेवी शासनदेवता । सा च स्वर्णवर्णा गजस्था वरदाक्षसूत्रिदक्षिणद्विभुजाऽभयदशूलि
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org