SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् वामोभयबाहुः।। सर्वपरिवारे च प्रभोः साधूनां त्रिलक्षी । साध्वीनां चतुर्लक्षी त्रिंशत्सहस्राश्च। चतुर्दशपूर्विणां सहस्रद्वयी त्रिंशञ्च । अवधिज्ञानिनां नवसहस्री । मनःपर्ययिणां सार्द्धकनवतिशती । केवलिनामेकादशसहस्री । वैक्रियलब्धिमतां पञ्चदशसहस्री त्रिशती च । वादिनामष्टसहस्री चतुःशती च । श्रावकाणां द्विलक्षी सप्तपञ्चाशत्सहस्री च। श्राविकाणां पञ्चलक्षी सप्तसहस्रहीना।। नवभिर्मासैविंशत्या पूर्वाङ्गैश्च हीनमेकं पूर्वलक्षं केवलिपर्यायः । आसनमोक्षश्च मुनिनां पञ्चशत्या समं सम्मेताद्रौ गत्वा मासमनशनेनोर्ध्व एव स्थितः फाल्गुनकृष्णसप्तम्यां मूलः क्षीणाशेषकर्मा शर्माद्वैतं पदं प्रभुः प्रपेदे । कौमारे पञ्चपूर्वलक्षी । राज्ये चतुर्दशपूर्वलक्षी विंशतिपूर्वाङ्गयुता । व्रते विंशतिपूर्वाङ्गहीनं पूर्वलक्षम् । एवं विंशतिः पूर्वलक्षाः प्रभोः सर्वायुः । पद्मप्रभमोक्षानवसु सागरोपमकोटिसहस्रेषु गतेषु श्रीसुपार्श्वमोक्षः । मोक्षमहिमा च प्राग्वत् ।। सुपार्श्वनाथस्य चरित्रमेत-खेत:पवित्रीकरणाय भव्या:!। ध्यायन्तु मन्त्राक्षरवत् सदैव, हृदीप्सितं ज्योतिरुदेति येन ।।१२३।। (उपजातिः) ।।श्रीचन्द्रप्रभचरित्रम्।। । वृत्तं न खण्डमुदयः सततं कलकोऽप्येतं श्रितस्य न हि राज्ञ इतीव मत्वा । राजा स्थितो वपुषि लक्ष्ममिषाद् यदीये चन्द्रप्रभः प्रभवतात् स तमःशमाय ।।१२४ ।। (वसन्ततिलका) धातकीखण्डद्वीपे प्राग्विदेहे मङ्गलावतीविजये रत्नसञ्चयायां पुर्यां पद्मो १ चन्द्रमसः।। २ लाञ्छनमिषात्।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy