SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् क्षीणभवोपग्राहिकर्मा चैत्रशुक्लनवम्यां पुनर्वस्वोर्मोक्षसुखमग्नोऽभवत् । कौमारे दशपूर्वलक्षाः । राज्ये द्वादशपूर्वाङ्गयुता एकोनत्रिंशत्पूर्वलक्षाः । व्रते द्वादशपूर्वाङ्गन्यूनं पूर्वलक्षम् । एवं चत्वारिंशत्पूर्वलक्षाः प्रभोः सर्वायुः । अभिनन्दनमोक्षात् सागरोपमाणां कोटिलक्षेषु नवसु गतेषु श्रीसुमतिनाथस्य मोक्षः । मोक्षमहिमा च प्राग्वत् ।। सुमतिजिनचरित्रताक्ष(क्ष्य)मन्त्रं, प्रतिहतमोहमहाविषप्रचारम् । हृदि वहति कृतादरो नरो यखुटति हि तस्य कुवासनागपाशः ।।११५ ।। (पुष्पिताग्रा) ।।श्रीपद्मप्रभचरित्रम्।।। यजन्मनि प्रमुदितं हृदये दयायैधर्मेण यस्य वपुषा सह सम्प्रवृद्धम् । यद्दीक्षया शिवपुरे रचिताः पताकाः पद्मप्रभः प्रददतां प्रभुतां सतां सः ।।११६ ।। (वसन्ततिलका) धातकीखण्डद्वीपे प्राग्विदेहे वत्सविजये सुसीमायां पूर्यामपराजितो राजा राज्यं पालयन्नेकदा वर्षासु वर्षयूर्जिततरं पर्जन्ये पेटलान्तपतज्जलधाराभिरुत्पद्योत्पद्य विनश्यतो जलबिन्दून् विलोक्य चिन्तयामास अत्युज्ज्वलप्रकृतयः सहसैव वृद्धिं, लोकोत्तरामधिगतास्तरलस्वभावाः । वर्षोपजन्यजलबुद्बुदभङ्गिभाजः, कालं चिरंस्थितिभृतो न नरा भवन्ति ।।११७।।(वसन्ततिलका) १ कुवासनानागपाशः ।। २ 'छापलं' इति भाषा ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy