SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६६ त्रिषष्टिशलाकापुरुषचरित्रम् सहस्रामवणे गत्वा वैशाखशुक्लनवम्यां मघासु पूर्वाह्ने नृपसहस्रेण समं पञ्चभिर्मुष्टिभिरुत्खातकुन्तलोऽन्त्यवयाः शक्रन्यस्तदेवदूष्यधारी सर्वं सावद्यं मया प्रतिषिद्धमिति चारित्रं प्रतिपन्नवान् । उत्पन्नं प्रभोर्मन:पर्ययज्ञानम् । शक्रादयश्च प्रभुकेशान् प्रक्षिप्य क्षीराब्धौ कृत्वा नन्दीश्वरयात्रां गताः स्वं स्वं स्थानम् । द्वितीयेऽह्नि च विजयपुरे पद्मनृपगृहे परमान्नेन चकार प्रभुः पारणम् । पञ्चदिव्यानि तत्राविर्भूतानि।। विंशतिवर्षाणि यावदन्यत्र विहत्य पुनरायातः स्वामी सहस्राम्रवणे । कृतषष्ठस्य च प्रियङ्गुतरुतले पूर्वाह्ने चैत्रशुक्लैकादश्यां मघासु प्रभोरुत्पन्नं केवलज्ञानम्। समवसरणादिकं च प्राग्वत् । सम्प्राप्ताः शक्रादयः । कृता प्रभुणा देशना केऽपि क्षिपन्ति वपुरप्यकृशे कृशानौ, भिन्दन्ति केचिददयं हृदयं च शस्त्रैः । वैराग्यतोऽपि गतभाग्यतमाः शमाय, रुद्धेन्द्रियास्तपसि नैव धुरं धरन्ति ।।११४।। (वसन्ततिलका) इत्याद्याकर्ण्य प्रवव्रजुर्जगृहुश्च सम्यक्त्वाद्यं प्रभूताः प्राणिनः । स्थापिताश्च चमरप्रमुखाः शतं गणधराः । प्रभुतीर्थे च तुम्बरुर्यक्षः । स च गौरस्तार्क्ष्यवाहनो वरदशक्तिभृद्दक्षिणद्विभुजो गदापाशिवामभुजयुगः । महाकाली शासनदेवता । सा च स्वर्णवर्णा पद्मवाहना वरदपाशिदक्षिणद्विभुजा मातुलिङ्गाङ्कुशिवामभुजयुगा । प्रभोश्च सर्वपरिवारे साधूनां त्रिलक्षी विंशतिश्च सहस्राः । साध्वीनां पञ्चलक्षी त्रिंशच्च सहस्राः । चतुर्दशपूर्विणां चतुर्विंशतिशती । अवधिज्ञानिनामेकादशसहस्री। मनोज्ञानिनां वादिनां च चतुर्दशसहस्री सार्द्धचतुःशती च । केवलिनां त्रयोदशसहस्री। वैक्रियलब्धिमतामष्टादशसहस्री चतुःशती च । श्रावकाणां द्विलक्ष्येकाशीतिसहस्री च । श्राविकाणां पञ्चलक्षी षोडशसहस्री च।। द्वादशपूर्वाङ्गरहितं छाद्मस्थ्यसत्कविंशत्यब्दीहीनं पूर्वलक्षमेकं केवलिपर्यायः । आसन्नमोक्षश्च प्रभुर्मुनिसहस्रेण समं सम्मेताद्रौ गत्वा मासमनशनेनोर्ध्व एव स्थितः Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy