________________
त्रिषष्टिशलाकापुरुषचरित्रम्
६५ स्तीर्थकरनामकर्मोपार्जितवान् । अन्ते चानशनेन मृत्वा वैजयन्तविमाने देवो जातः।।
जम्बूद्वीपे भरतक्षेत्रे विनीतायां मेघो राजा। मङ्गला नाम पट्टराज्ञी। श्रावणशुक्लद्वितीयायां वैजयन्तविमानात् पुरुषसिंहश्श्युत्वा चतुर्दशस्वप्नसूचिततीर्थकरजन्मा तस्याः कुक्षाववतीर्णः ।।
इतश्च सदृशभार्याद्वयः कश्चिद्वणिग्वाणिज्ये गतः । गतमात्रस्य च तस्या एका भार्या प्रसूता पुत्रम् । पिता च कृत्वा वाणिज्यमायातमात्रो मृतः । क्रयाणकानां विक्रयादिकं गृहिणीभ्यां कृतम् । शिशुश्च द्वयोरपि जनन्योरन्तरं किमपि न वेत्ति । ततस्तयोर्द्वयोरपि जनन्योरन्योन्यं सुतधनव्यतिकरे विवादो जातः । केनापि च न निर्धारितस्ततो विनीतायाः मेघराजसमीपे द्वेऽप्याजग्मतुः । सामात्येनाऽपि राज्ञा न पारितोऽसौ निर्णेतुम् । ज्ञातवृत्तान्तया च सुमङ्गलया देव्या प्रोक्तम् । देवाहं निर्णेष्यामीति । ततो राजा धर्माधिकरणासने देवीमुपवेश्य विज्ञापिते ते वणिग्गृहिण्यौ। देव्याऽप्युक्तम् । वत्से ! ममोदरे ज्ञानत्रयधरस्तीर्थकरदेवोऽवतीर्णोऽस्ति यावञ्च तस्य जन्मोत्सवो भवति तावद्युवाभ्यां विलम्बनीयम्। जातः सन्नयमेव युवयोनिर्णयं दास्यतीति। प्रतिपन्नमिदं विमात्रा । पुत्रमात्रा च पुत्रस्नेहविधुरया नाऽङ्गीकृतम् । तत सुमङ्गलया देव्या प्रोक्तम् । या स्वपुत्रविरहकातरा न विलम्बते, पुत्रं धनं च संशये न पातयति, तस्या एव पुत्रो धनं चेति । इति च निर्णये कृते रञ्जितः सर्वोऽपि सामात्यश्च राजा। वितर्कितवान् नूनं गर्भानुभावोऽयमिति । पुत्रं गृहसारं च स्वीकृत्य गता पुत्रमाता स्वस्थानम्।।
इतश्च नवसु मासेष्वर्द्धाष्टमेषु च दिनेष्वतिक्रान्तेषु वैशाखशुक्लाष्टम्यां मघानक्षत्रे स्वर्णवर्ण: क्रौचाङ्क: कार्मुकशतत्रयोञ्चश्चत्वारिंशत्पूर्वलक्षायुर्ज्ञानत्रयधरः सर्वाद्भुतलक्षणोपेतस्तीर्थकरः पुत्रो जातः । जन्मोत्सवादिकं च प्राग्वत् । गर्भस्थे च प्रभौ मातुः शोभना मतिरभूदित्यालोच्य राज्ञा सुमतिरिति प्रभोः कृतं नाम । प्राप्ततारुण्यश्च पित्रा परिणायितः पार्थिवकन्याम् । जन्मकालाद् दशसु पूर्वलक्षेषु गतेषु पित्रा प्रभुरभिषिक्तो राज्ये । स्वयं च मेघनृपः स्वार्थसाधको जातः । द्वादशपूर्वाङ्ग सहितैकोनत्रिंशत्पूर्वलक्षाणि राज्यं प्रपाल्य प्रभुः सांवत्सरिकं दानं दत्त्वा नित्यभक्तपरः शक्रादिकतनिष्क्रमणोत्सव:
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org