________________
६४
त्रिषष्टिशलाकापुरुषचरित्रम् देवालयाः क्षणदिनेऽप्यमहोत्सवा ये,
तत्सर्वमेतदभवत् पुरुषैविनाऽत्र ।।१११ ।। (वसन्ततिलका) तदवश्यं करिष्यामि तदर्थं प्रयत्नान्तरम्। इत्यभिधाय सहसैव राज्यादिचिन्तास्वमात्यादीनियुज्य नियमितेन्द्रियो महानुष्ठानेन कुलदेवी समाराधयितुं प्रवृत्तः । भक्त्यतिशयेन च देवी प्रत्यक्षीभूय प्रोवाच । वत्स ! पुत्रार्थे कष्टानुष्ठानमनुष्ठितवान् भवान्, युक्तमेवैतत् परं कोऽपि पुण्यात्मैव पुत्रः पित्रोः सुखनिमित्तमुत्पद्यते । किञ्च
पुत्रः कस्य न वल्लभो जनयितु-र्जातो जडात्मा पुनः, कश्चिच्छुक्तिपुटस्य मौक्तिकमिवा-नर्थाय सञ्जायते । कोऽपि श्लाघ्यकलः स्वभावविमलः, पुण्यैरगण्यैः पितुः, वृद्धेरेव निमित्तमभ्युदयते, रत्नाकरस्येन्दुवत् ।।११२ ।। (शार्दूलविक्रीडितम्) भविष्यति च तेऽत्युत्तमः पुत्र इत्युक्त्वा तिरोदधे देवी।
राजापि प्रहृष्टमनाः प्रणम्य देवीं समायातः स्वस्थाने । निवेद्य च सुदर्शनायाः पत्न्याः प्रवृत्तो धर्मार्थादिषु । समये च सिंहस्वप्नसूचितो जातः पवित्रः पुत्रः । कृतः पुर्यां महोत्सवः पित्रा । दत्तं च पुरुषसिंह इति तस्य नाम । प्राप्तोऽसौ यौवनं कलाकलापं । च विवाहितोऽष्टौ राजपुत्रीः पित्रा । एकदा गतः कुमारः क्रीडोद्यानम्। दृष्टस्तत्र महाज्ञानी विनयनन्दनो नाम सूरिः । गतस्तं वन्दितुम् । कृता तेन देशना
येऽमी कामाः, सुखमिति जडै-लम्भिताः ख्यातिमयां, व्याधेः पथ्या-दिकमिव सुखं, तत्त्ववृत्त्या न हीमे । सौख्यं लोको-त्तरमपरमेवास्ति यस्याग्रतस्तत् स्वर्लोकस्या-प्यमृतमनृतं, शक्रभोगश्च रोगः ।।११३।।(मन्दाक्रान्ता)
इत्याकर्ण्य विरक्तश्चित्तेऽनिच्छन्तावपि पितरावनुज्ञाप्य ताभ्यामेव कृतनिःक्रमणोत्सवः कुमारश्चकार व्रतग्रहणम् । निरतिचारं पालयन्नर्हद्भक्त्यादिस्थानकै
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org