SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् दूरे न तस्य पुरुषोत्तमता तदीयमोजोऽपि दुर्नरकभेदसमर्थमेव ।।१०८।। (वसन्ततिलका) ।।श्रीसुमतिनाथचरित्रम्।।। तीर्थङ्करस्य सुमतेः सुमते रमन्ताम्, सन्तो विमुच्य मतमन्यतमं समन्तात् । यस्याज्ञया कवचितात् कृतिनोऽल्पयापि, नैवोपसर्पति कदाचन मोहसर्पः।।१०९।। (वसन्ततिलका) ... जम्बूद्वीपे प्राग्विदेहे पुष्कलावतीविजये शङ्खपुरे विजयसेनो राजा। सुदर्शना प्रीतिपात्रं कलत्रम् । एकदा वसन्तलक्ष्मीविलोकनाय गतौ दम्पती बाह्योद्यानम् । यावच्च रम्यतां प्रति तरून् विलोकयन्तौ स्तस्तावदेकत्र पत्रलतरुतलसमासीना काचिदिभ्यगृहिण्यष्टाभिः प्रधानवधूभिरुपास्यमानचरणकमला सुखं विलसन्ती तयोरागता दृग्गोचरम् । ततोऽसञ्जायमानसुतोत्पत्तिखिन्नया सुदर्शनादेव्या विज्ञप्तः सकरुणं राजा । देव ! किं मम भवत्प्रसादेन राज्येन श्रिया वा ?, यतो मेऽनपत्याया नैकाप्येवंविधा वधूः पर्युपास्तिविधायिनी । किं च उच्छिद्यते प्रणयिनां सकलापि वाञ्छा, धर्मक्रमः कुलगतोऽक्रमतो व्यपैति । शून्यत्वमेति सदनं सुतमन्तरेण, विश्वं सदप्यसदिवैव विना दिनेशम् ।।११० ।।(वसन्ततिलका) इत्याद्युक्त्वाऽधोमुखी बभूव । ततो राज्ञापि बाष्पमन्तनिरुध्य प्रोक्तम् । देवि! सत्यमेवेदम् शून्यानि यानि धवलान्यपि मन्दिराणि, याः काश्चनोत्पलदृशो विहितप्रवासाः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy