SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ६० त्रिषष्टिशलाकापुरुषचरित्रम् सार्धं च शतं मनःपर्ययिणाम् । पञ्चदशसहस्री केवलिनाम् । अष्टादशशती वैक्रियलब्धिमताम् । द्वादशसहस्री वादिनाम् । सप्तसहस्रोना त्रिलक्षी श्रावकाणाम्। सषट्त्रिंशत्सहस्री षड्लक्षी श्राविकाणाम् ।। आसन्नमोक्षश्च प्रभुर्मुनिसहस्रेण समं सम्मेतशैले मासिकेनानशनेनोर्ध्वस्थ एव चैत्रसितपञ्चम्यां मृगशीर्षे सिद्धिसौख्यभाग् बभूव । कौमारे पञ्चदशपूर्वलक्षाः । राज्ये सपूर्वाङ्गचतुष्टयाश्चतुश्चत्वारिंशत्पूर्वलक्षाः । व्रते चतुःपूर्वाङ्गहीनं पूर्वलक्षम्। एवं षष्ठिपूर्वलक्षाणि प्रभोः सर्वायुः । अजितस्वामिमोक्षात् सागरोपमाणां त्रिंशति कोटिलक्षेषु गतेषु श्रीसम्भवमोक्षः । मोक्षमहिमा प्राग्वत् ।। सद्वृत्तं शुभबीजमुज्वलगुण-ग्रामाभिरामं सदा, यस्यास्ते हृदि लग्नमेव चरितं, श्रीसम्भवस्याद्भुतम्। तुम्बीनां फलजालवनिरवधौ, संसारसिन्धौ क्रीडन्, प्राप्नोत्येव परं स पारमपरि-स्पृष्टश्च चित्रञ्जलैः ।।१०४।। (शार्दूलविक्रीडितम्) !।।श्रीअभिनन्दनचरित्रम्।।! यजन्ममजनजलेऽनिमिषैस्तरद्धिरद्भिर्महानिमिषभङ्गिरभङ्गुराप्ता । देवः सुरासुरशिरोमणितामुपेत श्वेतः पुनातु स सतामभिनन्दनोऽर्हन् ।।१०५ ।।(वसन्ततिलका) जम्बूद्वीपे प्राग्विदेहे मङ्गलावतीविजये रत्नसञ्चयायां पुर्यां महाबलो राजा । कुलक्रमागतं जिनधर्मं परिपालयत्येकदास्मिन्नाऽऽस्थानस्थे नटैनर्तितुमारब्धं नाटकम्। चिन्तितं तदालोकयता राज्ञा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy