________________
त्रिषष्टिशलाकापुरुषचरित्रम्
५९
सपूर्वाङ्गचतुष्टयां चतुश्चत्वारिंशत्पूर्वलक्षीं राज्येऽतिवाह्य कृतसांवत्सरिकदानः षष्ठेन तपसा सहस्राम्रवणे गत्वा शक्रादिकृत निष्क्रमणोत्सवः श्रीसम्भवो मार्गशीर्षपूर्णिमायां मृगशीर्षे कृतपञ्चमुष्टिककेशोत्पाटः शक्रक्षिप्तदेवदूष्यधारी पश्चिमदिने राज्ञां सहस्रेण समं पश्चिमवयाश्चारित्रं प्रतिपन्नवान् । समुत्पन्नं मन:पर्ययज्ञानम् । शक्रोऽपि क्षीराब्धौ क्षित्वा प्रभुकेशान् प्रभुं च प्रणम्य कृंतनन्दीश्वरयात्रः प्राप्तः स्वं स्थानम् ।।
द्वितीयदिने च तत्रैव सुरेन्द्रदत्तनृपगृहे प्रभुश्चकार पारणं परमान्नेन । पञ्चदिव्यानि तत्राविर्भूतानि । ततः परं चतुर्दशवर्षाणि प्रभुरप्यन्यत्र विहृत्य पुनः सहस्राम्रवणमायातः । सालतरुतलस्थस्य च प्रभोः पूर्वाह्न कृतषष्ठस्य कार्तिककृष्णपञ्चम्यां मृगशीर्षे घातिकर्मक्षयादुत्पन्नं केवलज्ञानम् । प्राग्वत् समवसरणादिकम् । सम्प्राप्ताः शक्रादयः । कृता प्रभुणा देशना
अर्थार्थे घटयन्नुपायपदवीं, नापेक्षते प्रेरकम्, कामार्थे विनिवारितोऽपि सुजनै र्निः शृङ्खलं खेलति ।
धर्मार्थे गुरुभिः पुनः प्रतिपदं, प्रोत्साहितोऽप्यर्थितोऽप्याक्रुष्टोऽपि न चेष्टते सकृदपि, प्राणी कुकर्मावृतः । । १०३ ।। (शार्दूलविक्रीडितम्)
इत्याद्याकर्ण्य प्रतिबुद्धाः प्राज्याः प्राणिनः केऽपि प्रवव्रजुः । केऽपि सम्यक्त्वादिकं च जगृहुः । द्व्यधिकशतं गणधराश्च स्थापिताः । प्रभुतीर्थे च त्रिमुखो यक्षः । स च त्रिनेत्रः श्यामो बर्हिवाहनो नकुलिगदाभृदभयददक्षिणदोस्त्रयो मातुलिङ्गनागाक्षसूत्रिवामभुजत्रितयः । दुरितारिश्च शासनदेवता । सा च गौराङ्गी मेषवाहना वरदाक्षसूत्रिदक्षिणदोर्द्वयाऽभयदफणिवामबाहुः ।।
सर्वपरिवारे च प्रभोर्द्विलक्षी साधूनाम् । त्रिलक्षी षट्त्रिंशत्सहस्री च साध्वीनाम् । सार्द्धकविंशतिशती चतुर्दशपूर्विणाम् । षण्णवतिशती अवधिज्ञानिनाम् । द्वादशसहस्राः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org