________________
त्रिषष्टिशलाकापुरुषचरित्रम् गताः किं जीमूता, न खलु तदुपादातुमुत किं, नृपैस्त्यक्ता नीति-र्ववृषुरधुना यन्न जलदाः ।।१००।। (शिखरिणी) अपि चआहारो हारतुल्योऽद्य, रसापि विरसाऽभवत् । दुष्कालभीतवद् दानं, नष्टं करिकरादपि ।।१०१।। तथापिसुभिक्षे सौस्थ्ये वा, सुकृतपरिपाकव्यसनिनः, स्वशक्तया भिक्षुभ्यः, कति न ददते दानमसमम् ?। विशेषाद् दुर्भिक्षा-दिषु यदशनाद्यैर्मुनिजनः, सुखी मजज्जैन, प्रवचनमसौ रक्षति कृती ।।१०२।। (शिखरिणी)
इति निश्चित्य राज्ञा सकलमपि दुष्कालं यावद्विशिष्टभोजनादिनाऽर्हद्वैयावृत्यादिना च सङ्घस्य समाधिं जनयता समुपार्जितं तीर्थकरनामकर्म । समये च समुल्लसितवैराग्येण गृहीतं व्रतम् । तप्तं तपः । विंशत्या च स्थानकैर्विशेषतः पोषितं प्रागुपात्तं तीर्थकरनामकर्म । स्वायुःप्रान्ते च समाधिना मृत्वाऽऽनतकल्पे जातो देवः ।। __जम्बूद्वीपेऽपाग्भरतार्द्ध श्रावस्त्यां जितारिनृपः । सेनानामपट्टमहादेवी । फाल्गुनशुक्लाष्टम्यां मृगशीर्षे विपुलवाहनजीव आनताच्युत्वा सेनायाः कुक्षाववतीर्णः। दृष्टाश्च तया चतुर्दशमहास्वप्नाः । मार्गशुक्लचतुर्दश्यां मृगशीर्षे स्वर्णवर्णस्तुरगलाञ्छनश्चतुर्धनुशतोञ्चः षष्ठिपूर्वलक्षायुः ज्ञानत्रयधरस्तीर्थकरः पुत्रो जातः । जन्मोत्सवश्च प्राग्वत् कृतो जितारिनृपेण । पुरे महानुत्सवः । गर्भस्थे च प्रभौ प्रभूतं सम्भूतं धान्यं सुखं च समस्तप्रजानाम् । ततः कृतं सम्भवः शम्भवश्चेति प्रभो म । प्राप्तः क्रमेण भगवान् यौवनम् । महामहेन कारितः पित्रा प्रधानराजपुत्र्याः पाणिग्रहम् । पञ्चदशपूर्वलक्षान्ते प्रभु राज्ये न्यस्य प्रव्रजितो जितारिर्जातश्च स्वार्थसाधकः ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org