________________
त्रिषष्टिशलाकापुरुषचरित्रम् तावदियमात्मपार्श्वे स्थापयितव्येति । प्रतिपन्नं राज्ञा । तां मुक्त्वा गतः सः । क्षणान्तरे राजा शुश्राव हक्काम् । क्षणाञ्च रत्नकङ्कणभूषितः पतितो भुजः । तदा च तदीयोऽयमित्युपलक्षितः । एवं क्षणात् पादः, क्षणेन द्वितीयो भुजः, क्षणेन द्वितीयः पादः, क्षणादेव शिरोऽपि पतितम् । ततस्तया राजानुज्ञापितो भर्तुरङ्गैरुत्सङ्गभृतैः सह साधितस्तया वह्निरह्नाय । यावच्छोकाकुल: सभायां समुपविष्टो राजास्ति । तावदाकाशात् फलकासिधरः स विद्याधरः समुत्तीर्णः । दत्त्वाशिषं राज्ञे । प्रार्थिता स्वभार्या। तेन ततो राज्ञा कथितं तत्स्वरूपम् । तेनापि तस्यैव राज्ञः पृष्ठभागे दर्शिता समुपविष्टा सा स्वभार्या । विस्मितो राजा । ततस्तेन संहत्य सर्वम्, सोऽहमिन्द्रजालोपजीवी यो भवन्तमुपस्थित इति। सर्वं कथयित्वा क्षमितः स्वावज्ञां राजा । राज्ञापि चोक्तम् । साधु स्मारितोऽहं संसार एवेदृश इति । तस्मै त्यागं दत्त्वा महता प्रमोदेन प्रव्रजितः स राजा ।।
ततश्चक्रिणोऽपि गतः शोकः। तदानीं च गङ्गापयःप्लावरावाकरणायागता जानपदाः । चक्रिणापि पौत्रो भगीरथः समादिष्टस्तदुपशमनाय। तेनापि नागकुमारः समाराधितः। तदादेशाद् दण्डरत्नेन भुवं विदारयता कुरुमध्येन हस्तिनापुरं दक्षिणेन कोशलदेशं पश्चिमेन प्रयागमुत्तरेण काशी दक्षिणेन विन्ध्यं दक्षिणेन मगधानुत्तरेण गङ्गा सागरे नीत्वा मुक्ता। ततः प्रभृति गङ्गासागर इत्युच्यते । भ्रातृणां चास्थीनि गङ्गाप्रवाहेन समुद्रे नीतानि । ततोऽद्याऽप्यस्थीनि लोकस्तत्र निक्षिपतीति ।।
ततो निवृत्तो भगीरथः । पथि च केवलिनं महामुनिमेकमपश्यत् । वन्दित्वा पृष्टः सः । भगवन् ! केन कर्मणा मम पितरो युगपद् विपन्ना इति । ज्ञानी प्रोवाच । पुरा सङ्घस्तीर्थयात्रार्थं प्रचलितः । सन्ध्यायां प्रत्यन्तग्रामे समावासितः । सन्निहितेन च कुम्भकारेण कृतमातिथ्यं घासादिना । समृद्धोऽयं सङ्घ इति ग्रामलोकस्तल्लुण्टनाय मिलित्वा समायातः । कुम्भकारेण सर्वोऽपि निवारितः । तेन च लोकेन सङ्घाशातनया कर्म निकाचितमुपार्जितम् । कुम्भकारेण च शुभाश्रयं कर्मार्जितम् । एकदा स ग्रामः सबालवृद्धजनोऽपि चौरदोषात् सर्वोऽपि प्रज्वालितो राज्ञा । तस्मिंश्च दिने स
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org