________________
५४
त्रिषष्टिशलाकापुरुषचरित्रम् कस्मिन्नपि पुरे कोऽपि राजा । तस्मिन्नास्थानस्थे कोऽपीन्द्रजालोपजीवी पुमानायातः । कृतं तेन स्वशक्तिवल्गितम् । राज्ञा प्रोक्तम् । मतिभ्रंश एवायं मूर्तः
मांसास्थिमेदप्रमुखैकगेहे, देहेऽङ्गिनां जङ्गमवत् श्मशाने । छन्ने त्वचा वस्त्विति यत्र बुद्धि
स्तत्रापि किं स्यात् परमिन्द्रजालम् ।।१६।। (उपेन्द्रवज्रा) तद्गच्छ त्यागं गृहीत्वेति । तेनोक्तम्- नाहं दायादः सभारञ्जनासमर्थो वेति। तथापि राज्ञा निष्कासितः । सोऽपि गत्वा किञ्चिदन्तरं विप्रवेषं कृत्वा पुनरागतः । प्रोक्तं तेन । राजन् ! नैमित्तिकोऽहम् । मनिमित्तेन सप्तमेऽह्नि भूरेकाऽर्णवा भविष्यतीति । तत सभ्यैरुल्लुण्ठ इत्यवगणितः । राज्ञा च प्रत्ययः प्रमाणमित्युक्त्वावस्थापितः । तेन च स्वमन्त्रप्रभावात् सप्तमे दिने क्षणादेव दर्शिता वृष्टिः । प्रत्यक्षीकृतः पयःपूरः । सर्वतोऽपि प्लावयन् गृहाट्टादीनि । किं बहुना राजसौधवलभीमप्युल्लचितुं प्रवृत्तं प्रदर्शितमम्भः । ततः ससम्भ्रमेण राज्ञा प्रजोपद्रवरक्षणासामर्थ्यवैराग्यादिव दातुमारब्धा झम्पा, धृतस्तेन हस्तेनोपवेशितः सिंहासने संहत्य सर्वम् । देव ! तदिदं मदीयमिन्द्रजालं सर्वम् । ततो राज्ञा चिन्तितम् । धिगस्मान् परमार्थोपयोगशून्यानेवंविधैरपि ये वच्यन्त इत्यनेनैव वैराग्येण पटान्तलग्नं तृणमिव राज्यादिकं त्यक्त्वा दानादिकं च दत्त्वा व्रतं गृहीतम् । ततश्चक्रिन् ! संसारे सर्वथा न मुह्यन्ति लघुकर्माण: प्राणिनस्ततो विमुञ्च शोकसङ्कुलतामिति।।
ततो मन्त्रिणा प्रारब्धा द्वितीया कथा । कस्मिंश्चित् पुरे कोऽपि राजा तस्मिन्नास्थानस्थे प्राग्वदिन्द्रजालिकेन प्रथममवज्ञातेन पश्चाद् विद्याधररूपं कृत्वा समागतेन विज्ञप्तो राजा । देव ! विद्याधरोऽहं मदीया च गृहिणीयम् । मम चान्येन विद्याधरेण सह वैरमुपस्थितम् । ततोऽहमनया सह न क्षमो गन्तुम् । न चान्यत्रेमां मोक्तुं शक्तो भवांश्च परनारीसहोदरो जितेन्द्रियश्च । ततः प्रसादं कृत्वा यावदहमागच्छामि १ दानम्।। २ असत्यवादी।। ३ गृहप्रासादीन्।। ४ प्रासादोञ्चभित्तिम० ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org