________________
त्रिषष्टिशलाकापुरुषचरित्रम्
५३
चानीतः पयःप्रवाहः । पूरिता च सर्वापि परिखा । जह्नुना समानीतेति जाता जाह्नवी । प्लावितानि च नागगृहाणि । क्रुद्धो नागराजः । समेत्य सर्वनागैः समं वीक्ष्य क्रूरदृष्ट्या दृग्विषज्वालाभिर्भस्मीकृताः क्षणमात्रेण षष्टिसहस्रसङ्ख्या अपि जह्नुप्रभृतयश्चक्रिणः पुत्राः । गतो नागराजः । ।
समुत्थितः सैन्ये महानाक्रन्दः । सैनिकाश्च विविधं विलपन्तो विप्रेणैकेनागत्य प्रबोध्य विनीतामानीताः । अदूरदेशे संस्थाप्य तान् स्वयं च किमप्यनाथमृतकमुत्सङ्गे कृत्वा प्रथममेव राजगृहाङ्गणे गतः । प्रवृत्तः पूत्कर्तुम् । चक्रिणाप्याहूय किं ते दुःखकारणमिति पृष्टः । तेनोक्तम् । देव ! अवन्तिदेशेऽश्वभद्रग्रामे वास्तव्योऽहम् । समये च प्रसूता मत्पत्नी पुत्रम् । अहं च तन्निमित्तं गतोऽन्यत्र ग्रामे द्रव्यार्जनाय यावदहं सधनः स्वमन्दिरमायातस्तावत्सर्पदष्टः स्वपुत्रो मया दृष्टः । ततः प्रवृत्तोऽहं कुलदेवतामाराधयितुम् । तयापि प्रत्यक्षीभूयः प्रोक्तम् । भो भो यत्र गृहे न कोऽपि कदापि विपन्नस्तस्माद् गृहाद् रक्षामानय । ततोऽहं जीवयामि ते पुत्रमिति । मया चान्यत्र रक्षामनाप्नुवता त्वमनुश्रित इति । ततश्चक्रिणा प्रोक्तम्- भो भोः परम्परया शोकपरिहारायोपदेश एवायं न पुनर्मृतस्य सञ्जीवनोपायः
1
अभूवन्नर्हन्तो, निरुपमतमज्ञाननिधय
स्ततो विद्यामन्त्रौ - षधिरसचिकित्सागमविदः । परं मृत्पुत्राणां, किमपि न हि तैरप्यवगतं,
भवेचेत्तत्तेषां, किमिव हि दुरापं त्रिभुवने । । ९५ ।। (शिखरिणी)
ततो मृते जने शोकोऽपि न समुचितो धैर्यमेवार्याणां प्रशस्यत इति । ततस्तेनोक्तम्- चक्रिंस्त्वयापि विधुरे विह्वलेन न भाव्यम् । तवापि षष्ठिसहस्राः सुता विपन्नाः ।।
अत्रान्तरे कृतसङ्केताः पूत्कुर्वन्तोऽधोमुखाः सन्तः सम्प्राप्ताः सार्मात्यादयः सैनिकाः । मूर्च्छितश्चक्री । शीताद्युपचारैः कृतः प्रवणः । प्रारब्धा चक्रिणः शोकमपनेतुं कथा ।। १० मन्त्रि० इति J टि० ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org